भविष्यस्य भविष्यं तु समासात्तन्निबोधत
कौशिको गालवश्चैव जामदग्न्यश्च भार्गवः
आत्रेयो दीप्तिमांश्चैव ऋषयशृङ्गस्तु काश्यपः
सुतपाश्चामिताभाश्च सुखाश्चैव गणास्त्रयः
नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः
प्रभासो मासकृद्धर्मस्तेजोरश्मिः क्रतुर्विराट्
अर्चिष्मान् द्योतनो भानुर्यशः कीर्त्तिर्बुधो धृतिः
प्रभुर्विभुर्विभासश्च जेता हन्ता रिहा ऋतुः
देही मुनिरिनः पोष्टा समः सत्यश्च विश्रुतः
दामो दानी ऋतः सोमो वित्तं वैद्यो यमो निधिः
ध्रुवं स्थानं विधानं च नियमश्चेति विंशतिः
मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः
सावर्णस्य मनोः पुत्रा भविष्यन्ति नवैव तु
नव चान्येषु वक्ष्यामि सावर्णेष्वन्तरेषु वै
मेरुसावर्णितस्ते वै चत्वारो दिव्यदृष्टयः
महता तपसा युक्ता मेरुपृष्ठे महौ जसः
महर्लोकं गता वृत्ता भविष्या मेरुमाश्रिताः
जज्ञिरे मनवस्ते हि भविष्यानागतान्तरे
सावर्णा नामतः पञ्च चत्वारः परमर्षिजाः
ज्येष्ठः संज्ञासुतो नाम मुर्वैवस्वतः प्रभुः
चतुर्दशैते मनवः कीर्तिता कीर्तिवर्द्धनाः
प्रजानां पतयः सर्वे भूतानां पतयः स्थिताः
पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः
चतुर्द्दशैते विज्ञेयाः सर्गाः स्वायंभुवादयः
विनिवृत्ताधिकारास्ते महार्लोकं समाश्रिताः
पूर्वेषु सांप्रतश्चायं शास्ति वैवस्वतः प्रभुः
सह प्रजा निसर्गेण सर्वांस्ते ऽनागतान्द्विजः
अनूना नातिरिक्तास्ते यस्मात्मर्वे विवस्वतः
मन्वन्तरेषु भाव्येषु भूतेष्वपि तथैव च
तेषामेव हि सिद्ध्यर्थं विस्तरेण क्रमेण च