मन्वन्तराणां सप्तानां संतानश्च श्रुतश्च ते
यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः
एतेन क्रमयोगेन ऐलेक्ष्वाक्वन्वया द्विजाः
अनुयान्ति युगाख्यां तु यावन्मन्वन्तरक्षयः
कृतेयं संकुला सर्वा क्षत्रियैर्वसुधाधिपैः
ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्त्तते
एलवंशस्य ये ख्यातास्तथैवेक्ष्वाकवो नृपाः
तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः
तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत
धृत राष्ट्रश्चैकशतमशीतिर्जनमेजयाः
ततः शतं तु पौलानां श्वेतकाश्य कुशादयः
ईजिरे चाश्वमेधैस्ते सर्वे नियुतदक्षिणैः
मनोर्वैवस्वतस्यास्मिन्वर्त्तमानेंऽतरे तु ये
न शक्येविस्तरस्तासां संततीनां परस्परम्
अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेन्तरे
चत्वारिंशत्त्रयश्चैव भविष्याः सह राजभिः
एतद्वः कथितं सर्वे समासव्यासयोगतः
एते ययातिपुत्राणां पञ्च वंशा विशां हिताः
लभते च वरान्पञ्च दुर्लभा निह लौकिकान्
धारणाच्छ्रवणाच्चैव पञ्चवंशस्य धीमतः
विस्तरेणानुपूर्व्या च किं भूयो वर्णयाम्यहम्
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे वंशानुवर्णनं नाम चतुःसप्ततितमो ऽध्यायः
ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः
चतुर्थं विस्तरात्पादं संहारं पारिकीर्त्तय
सप्तर्षीणामथैतेषां सांप्रतस्यान्तरे मनोः
विस्तरेणानुपूर्व्या च सर्वमेव ब्रवीहि नः
पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः
विस्तरेणानुपूर्व्या च निसर्गं शृणुत द्विजाः
प्रलयं चैव लोकानां ब्रुवतो मे निबोधत
मन्वन्तराणि संक्षेपाच्छृणुता नागतानि मे