मार्कण्डेयाः समाख्याता ऋषयो वेदपारगाः
उन्नतश्चद्युतिमतः स्वनवातश्च तावुभौ
स्वायंभुवेन्तरे ऽतीता मरीचेः शृणुत प्रजाः
प्रजापतेः पूर्णमासं कन्याश्चेमा निबोधत
पूर्णमासः सरस्वत्यां पुत्रौ द्वावुदपादयत्
विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः
लोकपालः स धर्मात्मा गौरीपुत्रः प्रतापवान्
पर्वशः पर्वशायां तु जनया मास वै सुतौ
तयोर्गोत्रकरौ पुत्रौ जातौ संन्यासनिश्चितौ
पुत्रो कन्याश्चतस्रश्च पुण्यास्ता लोकविश्रुताः
तथैव भरताग्निं च कीर्तिमन्तं च तावुभौ
हिरण्यरोमा पर्जन्यो मारीच्यामुदपद्यत
यज्ञे कीर्त्तिमतश्चापि धेनुका वीतकल्मषौ
तयोः पुत्राश्च पौत्राश्च अतीता वै सहस्रशः
कन्यां चैव श्रुतिं नाम माता शङ्खपदस्य सा
सत्यनेत्रश्च हव्यश्च आपो मूर्त्तिः शनैश्चरः
यामदेवैस्सहातीताः पञ्चात्रेयाः प्रकीर्त्तिताः
स्वायंभुवे ऽन्तरे ऽतीताः शतशो ऽथ सहस्रशः
पूर्वजन्मनि सो ऽगस्त्यः स्मृतः स्वायंभुवे ऽन्तरे
स्वमा यवीयसी तेषां सद्वती नाम विश्रुता
पौलस्त्यस्य च ब्रह्मर्षेः प्रीतिपुत्रस्य धीमतः
पौलस्त्या इति विख्याताः स्मृताः स्वायंभुवे ऽन्तरे
त्रेताग्निवर्चसः सर्वे येषां कीर्त्तिः प्रतिष्ठिता
ऋषिः कनकपीठश्च शुभा कन्या च पीवरी
पुत्रं शङ्खपदं नाम कन्यां काम्यां तथैव च
दक्षिणस्यां दिशि रतः काम्या दत्ता प्रियव्रते
दश कन्याद्वयं चैव यैः क्षत्रं सम्प्रवर्त्तितम्
यशोधरा विजज्ञे वै कामदेवं सुमध्यामा
तेषां न भार्या पुत्रो वा सर्वे ते उर्द्धरेतसः
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम्