संसक्ताश्च भविष्यन्ति शूद्राः सार्द्धं द्विजातिभिः
उपस्थास्यन्ति तान्विप्रांस्तदा दौर्वृत्त्यलिप्सवः
क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये
प्रतिपन्नः कलियुगस्तस्य संख्यां निबोधत
षष्टिं चैव सहस्राणि वर्षाणां तूच्यते कलिः
निःशेषे च तदा तस्मिन्कृतं वै प्रतिपत्स्यते
इक्ष्वाकोस्तु समृतं क्षत्त्रं सुमित्रान्तं विवस्वतः
एते विवस्वतः पुत्राः कीर्तिताः कीर्त्तिवर्द्धनाः
ब्राह्मणाः क्षत्त्रिया वैश्यः शूद्राश्चैवात्र ये स्मृताः
बहुत्वान्नामधेयानां परिसंख्या कुलेकुले
वैवस्वतंऽतरे ह्यस्मिन्न निमिवंशः समाप्यते
तथा हि कथयिष्यामि गदतो मे निबोधत
माहायोगबलोपेतौ कलापग्राममास्थितौ
सुवर्चा नाम पुत्रस्तु इक्ष्वाकोस्तु भविष्यति
देवापेश्च सपौलस्तु एलादिर्भविता नृपः
एवं सर्वत्र विज्ञेयं संतानार्थे तु लत्रणम्
सप्तर्षिभिस्तु तैः सार्द्धमाद्ये त्रेतायुगे पुनः
द्वापरांशेन तिष्ठन्ति क्षत्रिया ऋषिभिः सह
बीजार्थं ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः
सप्तर्षयो नृपैः सार्द्धं संतानार्थं युगेयुगे
मन्वन्तराणां सप्तानां संतानश्च श्रुतश्च ते
यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः
एतेन क्रमयोगेन ऐलेक्ष्वाक्वन्वया द्विजाः
अनुयान्ति युगाख्यां तु यावन्मन्वन्तरक्षयः
कृतेयं संकुला सर्वा क्षत्रियैर्वसुधाधिपैः
ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्त्तते
एलवंशस्य ये ख्यातास्तथैवेक्ष्वाकवो नृपाः
तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः
तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत
धृत राष्ट्रश्चैकशतमशीतिर्जनमेजयाः