असाधना हतस्वाश्च व्याधिशोकनिपीडिताः
अनावृष्टिहताश्चैव परस्परवधेन च
त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः
नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनः
सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा
अङ्गान्कलिङ्गान्वङ्गांश्च काश्मीरान्काशिकोशलान्
कृत्स्नं हिमवतः पृष्ठं कूलं च लवणांभसः
मृगैर्मीनैर्विहङ्गैश्च श्वापदैश्चेक्षुभिस्तथा
चीरं पर्णं च विविधं वल्कलान्यजिनानि च
बीजान्नानि तथा निम्नेष्वी हन्तः काष्ठशङ्कुभिः
नदीर्वत्स्यन्ति तोयार्थे नूनमाश्रित्य मानवाः
बहुमन्याः प्रजाहीनाः शौचाचारविवर्जिताः
हीनान्दीनांस्तथाधर्मान्प्रजा समनुवर्त्स्यति
दुर्बला विषयग्लाना जराया संपरिप्लुताः
वृत्त्यर्थमभिलिप्स्यन्तश्चरिष्यन्ति वसुंधराम्
क्षीणे कलियुगे तस्मिन्दिव्ये वर्षसहस्रके
स संध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यते
एकराशौ भविष्यन्ति तदा कृतयुगं भवेत्
अतीता वर्तमानाश्च तथैवानागताश्च ये
एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम्
अन्तरं च शतान्यष्टौ षट्त्रिंशच्च समाः स्मृताः
भविष्यैस्तत्र संख्याताः पुराणज्ञैः श्रुतार्षिभिः
सप्तविंशैः शतैर्भाव्या अन्ध्राणां ते ऽन्वयाः पुनः
सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतंशतम्
मासा दिव्याः स्मृताः षट्च दिव्याब्दाश्चैव सप्त हि
सप्तर्षीणां तु यौ पूर्वौ दृश्येते उत्तरादिशि
तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः
सप्तर्षयो ह्यथायुक्ताः काले परीक्षिते शतम्
इमास्तदा तु प्रकृतीर्व्यापत्स्यन्ते प्रजा भृशम्
श्रौतस्मार्त्ते प्रशिथिले धर्मे वर्णाश्रमे तदा