कोमलायां तु राजानो भविष्यन्ति महाबलाः
नैषधाः पार्थिवाः सर्वे भविष्यन्त्यामनुक्षयात्
मगधानां महावीर्यो विश्वस्फाणिर्भविष्यति
कैवर्त्तान्मद्रकांश्चेव पुलिन्दान्ब्राह्मणांस्तथा
विश्वस्फाणिर्महासत्त्वो युद्धे विष्णुसमप्रभः
उत्सादयित्वा क्षत्रं तु क्षत्रमन्यत्करिष्यति
मथुरां च पुरा रम्यां नागा भोक्ष्यन्ति सप्त वै
एताञ्जनपदान्सर्वान्भोक्ष्यन्ते सप्तवंशजाः
एताञ्जनपदान्सर्वान्भोक्ष्यन्ते मणिधान्यजान्
चंपां चैव पुरीं रम्यां भोक्ष्यन्ते देवरक्षिताः
एताञ्जनपदान्सर्वान् पालयिष्यति वै गुहः
तुल्यकालं भविष्यन्ति सर्वे ह्यते महीक्षितः
भविष्यन्तीह यवना धर्मतः कामतोर्ऽथतः
युगदोषदुराचारा भविष्यन्ति नृपास्तु ते
विहीनास्तु भविष्यन्ति धर्मतः काम तोर्ऽथतः
विपर्ययेण वर्तन्ते नाशायिष्यन्ति वै प्रजाः
तेषां वर्त्तति पर्याये बहुस्त्रीके युगे तदा
तथा गतासु वै काष्ठं प्रजासु जगतीश्वराः
कल्किना व्याहताः सर्वे म्लेच्छा यास्यन्ति संक्षयम्
प्रनष्टे नृपशब्दे च संध्याशिष्टे कलौ युगे
असाधना हतस्वाश्च व्याधिशोकनिपीडिताः
अनावृष्टिहताश्चैव परस्परवधेन च
त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः
नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनः
सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा
अङ्गान्कलिङ्गान्वङ्गांश्च काश्मीरान्काशिकोशलान्
कृत्स्नं हिमवतः पृष्ठं कूलं च लवणांभसः
मृगैर्मीनैर्विहङ्गैश्च श्वापदैश्चेक्षुभिस्तथा
चीरं पर्णं च विविधं वल्कलान्यजिनानि च
बीजान्नानि तथा निम्नेष्वी हन्तः काष्ठशङ्कुभिः