भविता द्वादश समास्तस्मान्नारायणो नृपः
कण्वायनास्तु चत्वारश्चत्वारिंशच्च पञ्च च
कण्वायनमथोद्धृत्य सुशर्माणं प्रसह्य तम्
त्रयोविंशत्समा राजा सिंधुको भविता त्वथ
श्रीशान्तकर्णिर्भविता तस्य पुत्रस्तु वै महान्
आपोलवोद्वादश वै तस्य पुत्रो भविष्यति
भवितानिष्टकर्मा तु वर्षाणां पञ्चविंशतिम्
पञ्चपत्तल्लको नाम भविष्यति महाबलः
शातकर्णिर्वर्षमेकं भविष्यति नराधिपः
राजा च गौतमी पुत्र एकविंशत्समा नृपः
षडेव भविता त्समाद्विजयस्तु समानृपः
पुलोमारिः समाः सप्त ततश्चैषां भविष्यति
समाः शतानि चत्वारि पञ्चाशत्षट् तथैव च
सप्तैव तु भविष्यन्ति दशाभीरास्ततो नृपाः
यवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश
अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतञ्च वै
सप्त गर्दभिनश्चैव भोक्ष्यन्तीमां द्विसप्ततिम्
आशीती द्वे च वर्षाणि भोक्तारो यवना महीम्
शतान्यर्द्धचतुर्थानि भवितारस्त्रयोदश
शतानि त्रीणि भोक्ष्यन्ते मौना एकादशैव तु
ततः किलकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति
नृपान्वैदिशकांश्चाथ भविष्यांस्तु निबोधत
भोगी भविष्यते राजा नृपो नागकुलोद्वहः
धनधर्मा ततश्चापि चतुर्थो वंशजः स्मृतः
तस्य भ्राता यवीयांस्तु नाम्ना नन्दियशाः किल
दैहित्रः शिशिको नाम पूरिकायां नृपो ऽभवत्
भोक्ष्यते च समाः षष्टिं पुरीं काञ्चनकां च वै
तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः
सुप्रतीको गभीरश्च समा भोक्ष्यति विंशतिम्
पुष्पमित्रा भविष्यन्ति षट् स्त्रिमित्रास्त्रयोदश