बृहद्रथश्च वर्षाणि सप्त वै भविता नृपः
सप्तत्रिंशच्छतं पूर्णं तेभ्यः शुङ्गो गमिष्यति
कारयिष्यति वै राज्यं समाः षष्टिं स चैव तु
भविता चापि सुज्येष्टः सप्त वर्षाणि वै ततः
ततो भद्रः समे द्वे तु भविष्यति नृपश्च वै
राजा घोषस्ततश्चापि वर्षाणि भविता त्रयः
द्वात्रिंशद्भविता वापि समा भागवतो नृपः
दशैते शुङ्गराजानो भोक्ष्यन्तीमां वसुंधराम्
अमात्यो वसुदेवस्तु बाल्याद्व्यसनिनं नृपम्
भविष्यति समा राजा पञ्च कण्वायनस्तु सः
भविता द्वादश समास्तस्मान्नारायणो नृपः
कण्वायनास्तु चत्वारश्चत्वारिंशच्च पञ्च च
कण्वायनमथोद्धृत्य सुशर्माणं प्रसह्य तम्
त्रयोविंशत्समा राजा सिंधुको भविता त्वथ
श्रीशान्तकर्णिर्भविता तस्य पुत्रस्तु वै महान्
आपोलवोद्वादश वै तस्य पुत्रो भविष्यति
भवितानिष्टकर्मा तु वर्षाणां पञ्चविंशतिम्
पञ्चपत्तल्लको नाम भविष्यति महाबलः
शातकर्णिर्वर्षमेकं भविष्यति नराधिपः
राजा च गौतमी पुत्र एकविंशत्समा नृपः
षडेव भविता त्समाद्विजयस्तु समानृपः
पुलोमारिः समाः सप्त ततश्चैषां भविष्यति
समाः शतानि चत्वारि पञ्चाशत्षट् तथैव च
सप्तैव तु भविष्यन्ति दशाभीरास्ततो नृपाः
यवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश
अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतञ्च वै
सप्त गर्दभिनश्चैव भोक्ष्यन्तीमां द्विसप्ततिम्
आशीती द्वे च वर्षाणि भोक्तारो यवना महीम्
शतान्यर्द्धचतुर्थानि भवितारस्त्रयोदश
शतानि त्रीणि भोक्ष्यन्ते मौना एकादशैव तु