एवं यो वेत्ति तं देवं तनुभिर्नामभिश्च ह
इत्येतद्वो मया प्रोक्तं गुह्यं भीमास्य यद्यशः
महादेवस्य देवस्य भृगोस्तु शृणुत प्रजाः
शुभाशुभप्रदातारौ सर्वप्राणभृतामिह
तयार्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी
नारायणात्मजौ तस्यां बलोन्मादौव्यजायताम्
तस्यान्ये मानसाः पुत्रा आसन् व्योमविचारिणः
मेरुकल्पे स्मृते भार्ये विधातुर्धातुरेव च
प्राणश्चैव मृकण्डश्च ब्रह्मकोशौ सनातनौ
सुतो वेदशिरास्तस्य धूम्रपत्न्यामजायत
मार्कण्डेयाः समाख्याता ऋषयो वेदपारगाः
उन्नतश्चद्युतिमतः स्वनवातश्च तावुभौ
स्वायंभुवेन्तरे ऽतीता मरीचेः शृणुत प्रजाः
प्रजापतेः पूर्णमासं कन्याश्चेमा निबोधत
पूर्णमासः सरस्वत्यां पुत्रौ द्वावुदपादयत्
विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः
लोकपालः स धर्मात्मा गौरीपुत्रः प्रतापवान्
पर्वशः पर्वशायां तु जनया मास वै सुतौ
तयोर्गोत्रकरौ पुत्रौ जातौ संन्यासनिश्चितौ
पुत्रो कन्याश्चतस्रश्च पुण्यास्ता लोकविश्रुताः
तथैव भरताग्निं च कीर्तिमन्तं च तावुभौ
हिरण्यरोमा पर्जन्यो मारीच्यामुदपद्यत
यज्ञे कीर्त्तिमतश्चापि धेनुका वीतकल्मषौ
तयोः पुत्राश्च पौत्राश्च अतीता वै सहस्रशः
कन्यां चैव श्रुतिं नाम माता शङ्खपदस्य सा
सत्यनेत्रश्च हव्यश्च आपो मूर्त्तिः शनैश्चरः
यामदेवैस्सहातीताः पञ्चात्रेयाः प्रकीर्त्तिताः
स्वायंभुवे ऽन्तरे ऽतीताः शतशो ऽथ सहस्रशः
पूर्वजन्मनि सो ऽगस्त्यः स्मृतः स्वायंभुवे ऽन्तरे
स्वमा यवीयसी तेषां सद्वती नाम विश्रुता