अतीता वर्त्तमानाश्च भविष्याश्च तथा पुनः
संग्रामे भारते तस्मिन्सहदेवो निपातितः
पञ्चाशतं तथाष्टौ च समा राज्यमकारयत्
अयुतायुस्तु षड्विंशद्राज्यं वर्षाण्यकारयत्
पञ्चाशतं समाः षट् च सुक्षत्रः प्राप्तवान्महीम्
सेनाजित्सांप्रतं चापि एता वै भोक्ष्यते समाः
रिपुञ्जयो महाबाहुर्महाबुद्धिपराक्रमः
अष्टपञ्जाशतं जाब्दान्राज्ये स्थास्यति वै शुचिः
सुव्रतस्तु चतुःषष्टिं राज्यं प्राप्स्यति वीर्यवान्
भोक्ष्यते नृपतिश्चेमा अष्टपञ्चाशतं समाः
चत्वारिंशद्दशाष्टौ च दृढसेनो भविष्यति
चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः
प्राप्येमं विश्वाजिच्चापि पञ्चविंशद्भविष्यति
द्वाविंशच्च नृपा ह्येते भवितारो बृहद्रथाः
बृहद्रथेष्वतीतेषु वीरहन्तृष्ववर्त्तिषु
मिषतां क्षत्रियाणां हि प्रद्योतिं नृपतिं बलात्
त्रयोविंशत्समा राजा भविता स नरोत्तमः
विशाखयूपो भविता नृपः पञ्चाशतं समाः
भविष्यति समा विंशत्तत्सुतो नन्दिवर्द्धनः
हत्वा तेषां यशः कृत्स्नं शिशुनागो भविष्यति
शिशुनागश्च वर्षाणि चत्वारिंशद्भविष्यति
ततस्तु विंशतिं राजा क्षेमधर्मा भवष्यति
अष्टत्रिंशत्समा राजाविधिसारो भविष्यति
पञ्चत्रिंशत्समा राजा दर्भकस्तु भविष्यति
स वै पुरवरं राजा वृथिव्यां कुसुमाह्वयम्
चत्वारिशत्समा भाव्यो राजा वै नन्दिवर्द्धनः
भविष्यन्ति च वर्षाणि षष्ट्युत्तरशतत्रयम्
एतैः सार्द्धं भविष्यन्ति तावत्कालं नृपाः परे
कालकास्तु चतुर्विंशच्चतुर्विंशत्तु हैहयाः
कुरवश्चापि षट्त्रिंशदष्टाविंशति मैथिलाः