ब्राह्मण्यं प्राप्य कक्षीवान्सहस्रमसृजत्सुतान्
इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै
बलिस्तानभिषिच्येह पञ्च पुत्रानकल्मषान्
अदृश्यः सर्वभूतानां कालाकाक्षी चरत्युत
सो ऽपराधात्सुदेष्णाया अनपानो ऽभवन्नृपः
पुत्रो दिविरथस्यासीद्विद्वान्धर्मरथो नृपः
बृहद्बलान्वये जाता महावीर्यपराक्रमाः
अत्रानुवंशश्लोको ऽयं भविष्यज्ज्ञैरुदाहृतः
सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ
अत ऊर्ध्वं प्रवक्ष्यामि मगधो यो बृहद्रथः
अतीता वर्त्तमानाश्च भविष्याश्च तथा पुनः
संग्रामे भारते तस्मिन्सहदेवो निपातितः
पञ्चाशतं तथाष्टौ च समा राज्यमकारयत्
अयुतायुस्तु षड्विंशद्राज्यं वर्षाण्यकारयत्
पञ्चाशतं समाः षट् च सुक्षत्रः प्राप्तवान्महीम्
सेनाजित्सांप्रतं चापि एता वै भोक्ष्यते समाः
रिपुञ्जयो महाबाहुर्महाबुद्धिपराक्रमः
अष्टपञ्जाशतं जाब्दान्राज्ये स्थास्यति वै शुचिः
सुव्रतस्तु चतुःषष्टिं राज्यं प्राप्स्यति वीर्यवान्
भोक्ष्यते नृपतिश्चेमा अष्टपञ्चाशतं समाः
चत्वारिंशद्दशाष्टौ च दृढसेनो भविष्यति
चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः
प्राप्येमं विश्वाजिच्चापि पञ्चविंशद्भविष्यति
द्वाविंशच्च नृपा ह्येते भवितारो बृहद्रथाः
बृहद्रथेष्वतीतेषु वीरहन्तृष्ववर्त्तिषु
मिषतां क्षत्रियाणां हि प्रद्योतिं नृपतिं बलात्
त्रयोविंशत्समा राजा भविता स नरोत्तमः
विशाखयूपो भविता नृपः पञ्चाशतं समाः
भविष्यति समा विंशत्तत्सुतो नन्दिवर्द्धनः
हत्वा तेषां यशः कृत्स्नं शिशुनागो भविष्यति