संतानार्थं महाभाग भार्यायां मम मानद
एवमुक्तस्तुतेनर्षिस्तथास्त्वित्युक्तवान्हितम्
अन्धं वृद्धं च तं दृष्ट्वा न सा देवी जगाम ह
कक्षीवच्चक्षुषौ तस्यां शूद्रयोन्यामृषिर्वशी
कक्षीवच्चक्षुषौ तौ तु दृष्ट्वा राजा बलिस्तदा
सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमावपि
नेत्युवाच ततस्तं तु ममैताविति चाब्रवीत्
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव
ततः प्रसादयामास पुनस्तमृषिसत्तमम्
पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत्
दध्ना लवणमिश्रेण स्वभ्यक्तं नग्नकं तथा
ततस्त्वं प्राप्स्यसे देवि पुत्रांश्च मनसेप्सितान्
अपानं च समासाद्य जुगुप्संती ह्यवर्जयत्
विनापानं कुमारं त्वं जनयिष्यसि पूर्वजम्
नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम्
देवीदृशं च ते पौत्रमहं दास्यामि सुप्रते
तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वदमब्रवीत्
तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः
तेजस्विनः पराक्रान्ता यज्वानो धार्मिकास्तथा
वङ्गस्तस्मात्कलिङ्गस्तु पुण्ड्रः सुह्मस्तथैव च
इत्येते दीर्घतमसा बलेर्दत्ताः सुताः पुरा
अपत्यमस्य दारेषु स्वेषु माभून्महात्मनः
सुरभिर्दीर्घत मसमथ प्रीतो वचो ऽब्रवीत्
भक्त्या चानन्ययास्मासु मुने प्रीतास्मि तेन ते
बार्हस्पत्यं च यत्ते ऽन्यत्पापं संतिष्ठते तनौ
आघ्रातमात्रो ऽसा पश्यत्सद्यस्तमसि नाशिते
गवा हृततमाः सो ऽथ गौतमः समपद्यत
यथोद्दिष्टं हि पित्राथ चचार विपुलं तपः
विधूय सानुजो दोषान्ब्राह्मण्यं प्राप्तवान्प्रभुः
सुपुत्रेण त्वया तात कृतार्थश्च यशस्विना