तस्मिन्हि तत्र वसति यदृच्छाभ्यागतो वृषः
जग्राह तं दीर्घ तमा विस्फुरन्तं तु शृङ्गयोः
ततो ऽब्रवीद् वृषस्तं वै सुंच मां बलिनां वर
त्र्यंबकं वहता देवं यतो जातो ऽस्मि भूतले
एवमुक्तो ऽब्रवीदेनं जीवंस्त्वं मे क्व यास्यसि
ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह
भक्ष्याभक्ष्यं न जानीमः पेयापेयं च सर्वशः
न पाप्मानो वयं विप्र धर्मो ह्येष गवां श्रुतः
भक्त्या चानुश्रविकया गोसुतं वै प्रसादयन्
मनसैव तदा दध्रे तद्विधस्तत्परायणः
विचेष्टमानां रुदतीं दैवात्संमूढचेतनः
गोधर्म वै बलं कृत्वा स्नुषां स ह्यभ्यमन्यत
भविष्यमर्थं ज्ञात्वा च महात्मा त्ववमत्य तम्
गम्यागम्यं न जानीषे गोधर्मात्प्रार्थयन्स्रुषाम्
यस्मात्त्वमन्धो वृद्धश्च भर्त्तव्यो दुरनुष्ठितः
कर्मण्यस्मिंस्ततः क्रूरे तस्य बुद्धिरजायत
कोष्टे समुद्रे प्रक्षिप्य गङ्गांभसि समुत्सृजत्
तं सस्त्रीको बलिर्नाम राजा धर्मार्थतत्त्ववित्
तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा
प्रीतः स वै वरेणाथ च्छन्दयामास वै बलिम्
संतानार्थं महाभाग भार्यायां मम मानद
एवमुक्तस्तुतेनर्षिस्तथास्त्वित्युक्तवान्हितम्
अन्धं वृद्धं च तं दृष्ट्वा न सा देवी जगाम ह
कक्षीवच्चक्षुषौ तस्यां शूद्रयोन्यामृषिर्वशी
कक्षीवच्चक्षुषौ तौ तु दृष्ट्वा राजा बलिस्तदा
सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमावपि
नेत्युवाच ततस्तं तु ममैताविति चाब्रवीत्
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव
ततः प्रसादयामास पुनस्तमृषिसत्तमम्
पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत्