पत्नी सुवर्च्चला तस्याः पुत्रश्चास्य शनैश्चरः
तस्या धात्री स्मृता पत्नी पुत्रश्च उशना स्मृतः
तस्याः पत्नी विकेशी तु पुत्रो ऽस्याङ्गारकः स्मृतः
तस्याः पत्नी शिवा नाम पुत्रश्चास्या मनोजवः
नाम्ना पशुपतेर्या तु तनुरग्निर्द्विजैः स्मृता
नाम्ना षष्ठस्य या भीमा तनुराकाशमुच्यते
अग्रा तनुः सप्तमी या दीक्षितो ब्राह्मणः स्मृतः
नाम्नाष्टमस्य महस्तनुर्या चन्द्रमाः स्मृतः
इत्येतास्तनवस्तस्य नामभिः सह कीर्तिताः
सूर्येप्सूर्व्यां तथा वायावग्नौ व्योम्न्यथ दीक्षिते
एवं यो वेत्ति तं देवं तनुभिर्नामभिश्च ह
इत्येतद्वो मया प्रोक्तं गुह्यं भीमास्य यद्यशः
महादेवस्य देवस्य भृगोस्तु शृणुत प्रजाः
शुभाशुभप्रदातारौ सर्वप्राणभृतामिह
तयार्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी
नारायणात्मजौ तस्यां बलोन्मादौव्यजायताम्
तस्यान्ये मानसाः पुत्रा आसन् व्योमविचारिणः
मेरुकल्पे स्मृते भार्ये विधातुर्धातुरेव च
प्राणश्चैव मृकण्डश्च ब्रह्मकोशौ सनातनौ
सुतो वेदशिरास्तस्य धूम्रपत्न्यामजायत
मार्कण्डेयाः समाख्याता ऋषयो वेदपारगाः
उन्नतश्चद्युतिमतः स्वनवातश्च तावुभौ
स्वायंभुवेन्तरे ऽतीता मरीचेः शृणुत प्रजाः
प्रजापतेः पूर्णमासं कन्याश्चेमा निबोधत
पूर्णमासः सरस्वत्यां पुत्रौ द्वावुदपादयत्
विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः
लोकपालः स धर्मात्मा गौरीपुत्रः प्रतापवान्
पर्वशः पर्वशायां तु जनया मास वै सुतौ
तयोर्गोत्रकरौ पुत्रौ जातौ संन्यासनिश्चितौ
पुत्रो कन्याश्चतस्रश्च पुण्यास्ता लोकविश्रुताः