उशीनरस्य पुत्र्यस्तु पञ्च तासु कुलोद्वहाः
नृगायास्तु नृगः पुत्रो नवाया नव एव तु
दृषद्वती सुतश्चापि शिबिरौशीनरो द्विजाः
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकसंमताः
तेषां जनपदाः स्फीताः केकया मद्रकास्तथा
तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः
हेमस्य सुतपा जज्ञे सुतः सुतपसो बलिः
महायोगी स तु बलिर्बद्धो यः स महामनाः
अङ्गं स जनयामास वङ्गं सुह्मं तथैव च
वालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः
महायोगित्वमायुश्च कल्पस्य परिमाणकम्
त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा
चतुरो नियतान्वर्णांस्त्वं वै स्थापयितेति वै
कालेन महता विद्वान्स्वं च स्थानमुपागतः
पुण्ड्राः कलिङ्गश्च तथा तेषां वंशं निबोधत
संभूता दीर्घतमसः सुदेष्णायां महौजसः
ऋषिणा दीर्घतमसा ह्येतत्प्रब्रूहि पृच्छताम्
भार्या वै ममता नाम बभूवास्य महात्मनः
बृहस्पतिर्बृहत्तेजा ममतां सो ऽभ्यपद्यत
अन्तर्वत्न्यस्मि ते भ्रातुर्ज्येष्ठस्यास्य च भामिनी
अजस्रं ब्रह्म चाभ्यस्य षडङ्गं वेदमुद्गिरन्
अस्मिन्नेव यथाकाले यथा वा मन्यसे विभो
कामात्मानं महात्मापि नात्मानं सो ऽभ्यधारयत्
उत्सृजन्तं तदा रेतो गर्भस्थः सो ऽस्य भाषत
अमोघरेतास्त्वं वापि पूर्वं चाहमिहागतः
उशिजस्य सुतं भ्रातुर्गर्भस्थं भगवानृषिः
मामेवमुक्तवान्मोहात्तमो दीर्घं ग्रवेक्ष्यसि
अथौशिजो बृहत्कीर्तिर्बृहस्पतिरिबौजसा
गोधर्मं सौरभेयात्तु वृषभाच्छतवान्प्रभोः