युद्धं सुमहदासीत्तु मासान्परिचतुर्दश
ख्यायते यस्य नाम्ना तु गान्धारविषयो महान्
गान्धारपुत्रो धर्मस्तु धृतस्तस्य सुतो ऽभवत्
प्रचेतसः पुत्रशतं राजानः सर्व एव ते
अनोश्चैव सुता वीरास्त्रयः परमधार्मिकाः
सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः
सृंजयस्याभवत्पुत्रो वीरो नाम्ना पुरञ्जयः
महामनाः सुतस्तस्य महाशालस्य धार्मिकः
महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः
उशीनरस्य पुत्र्यस्तु पञ्च तासु कुलोद्वहाः
नृगायास्तु नृगः पुत्रो नवाया नव एव तु
दृषद्वती सुतश्चापि शिबिरौशीनरो द्विजाः
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकसंमताः
तेषां जनपदाः स्फीताः केकया मद्रकास्तथा
तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः
हेमस्य सुतपा जज्ञे सुतः सुतपसो बलिः
महायोगी स तु बलिर्बद्धो यः स महामनाः
अङ्गं स जनयामास वङ्गं सुह्मं तथैव च
वालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः
महायोगित्वमायुश्च कल्पस्य परिमाणकम्
त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा
चतुरो नियतान्वर्णांस्त्वं वै स्थापयितेति वै
कालेन महता विद्वान्स्वं च स्थानमुपागतः
पुण्ड्राः कलिङ्गश्च तथा तेषां वंशं निबोधत
संभूता दीर्घतमसः सुदेष्णायां महौजसः
ऋषिणा दीर्घतमसा ह्येतत्प्रब्रूहि पृच्छताम्
भार्या वै ममता नाम बभूवास्य महात्मनः
बृहस्पतिर्बृहत्तेजा ममतां सो ऽभ्यपद्यत