अनुकर्षन्स वै सेनां हस्त्यश्वरथसंकुलाम्
नात्यर्थं धार्मिका ये च ये च धर्मद्विषः क्वचित्
तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह
तुबराञ्छबरांश्चैव पुलिन्दान्बरदान् वसान्
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृद्बली
मानवः स तु संजज्ञे देवसेनस्य धीमतः
गोत्रेण वै चन्द्रमसः पूर्णे कलियुगे ऽभवत्
तन्तं कालं च कायं च तत्तदुद्दिश्य कारणम्
पञ्चविंशे स्थितः कल्पे पञ्चविंशत्स वै समाः
कृत्वा बीजावशेषां तु महीं क्रूरेण कर्मणा
ततः स वै तदा कल्किश्चरितार्थः ससैनिकः
अकस्मात्कुपितान्योन्यं भविष्यन्ति च मोहिताः
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः
नृपेष्वथ विनिष्टेषु तदा त्वप्रग्रहाः प्रजाः
परस्परत्दृतस्वाश्च निरानन्दाः सुदुःखिताः
प्रनष्टश्रुतिधर्माश्चनष्टधर्माश्रमास्तथा
सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः
अल्पायुषो नष्टवार्ता बह्वाबाधाः सुदुःखिताः
प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन तु
प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यथा
यदुवंशप्रसंगेन महद्वो वैष्मवं यशः
तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योरनोस्तथा
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे विष्णुमाहात्म्यवर्णनं नाम त्रिसप्ततितमो ऽध्यायः
गोभानोस्तु सुतो वीर स्त्रिसानुरपाजितः
अन्यस्त्वाविज्ञितो राजा मरुत्तः कथितः पुरा
दुष्कन्तं पौरवं चापि स वै पुत्रमकल्पयत्
तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल
सरूप्यात्तु तथाण्डीरश्चत्वारस्तस्य चात्मजाः
तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः
अरुद्धः सेतुपुत्रस्तु बाब्रवो रिपुरुच्यते