न प्रमातुं महाबाहुं शक्यो ऽसौ मधुसूदनः
अष्टाविंशतिके तद्वद्द्वापरस्याथ संक्षये
माहयन्सर्वभूतानि योगात्मा योगमायया
प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम्
यत्र कंसं च शाल्वं च द्विविदं च महासुरम्
नागं कुवलयापीडं मल्लं राजगृहाधिपम्
छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणा
हृतानि च महीपानां सर्वरत्नानि तेजसा
एते लोकहितार्थाय प्रादुर्भावा महात्मनः
कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान्
अनुकर्षन्स वै सेनां हस्त्यश्वरथसंकुलाम्
नात्यर्थं धार्मिका ये च ये च धर्मद्विषः क्वचित्
तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह
तुबराञ्छबरांश्चैव पुलिन्दान्बरदान् वसान्
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृद्बली
मानवः स तु संजज्ञे देवसेनस्य धीमतः
गोत्रेण वै चन्द्रमसः पूर्णे कलियुगे ऽभवत्
तन्तं कालं च कायं च तत्तदुद्दिश्य कारणम्
पञ्चविंशे स्थितः कल्पे पञ्चविंशत्स वै समाः
कृत्वा बीजावशेषां तु महीं क्रूरेण कर्मणा
ततः स वै तदा कल्किश्चरितार्थः ससैनिकः
अकस्मात्कुपितान्योन्यं भविष्यन्ति च मोहिताः
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः
नृपेष्वथ विनिष्टेषु तदा त्वप्रग्रहाः प्रजाः
परस्परत्दृतस्वाश्च निरानन्दाः सुदुःखिताः
प्रनष्टश्रुतिधर्माश्चनष्टधर्माश्रमास्तथा
सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः
अल्पायुषो नष्टवार्ता बह्वाबाधाः सुदुःखिताः
प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन तु
प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यथा