द्विजो भूत्वा शुभे काले बलिं वैरोचनं जगौ
दातुमर्हसि मे राजन्विक्रमांस्त्रीनिति प्रभुः
वामनं तं च विज्ञाय ततो ऽदान्मुदितः स्वयम्
त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः
प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः
आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्द्दनः
नमुचिः शंबरश्चैव प्रह्रादश्चैव विष्णुना
महाभूतानि भूतात्मा सविशेषाणि माधवः
तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति
तद्वै रूपमुपेन्द्रस्य देवादानवमानवाः
बलिः सितो महापाशैः सबन्धुः ससुत्दृद्गणः
ततः सर्वामरैश्वर्यं दत्त्वेन्द्राय महात्मने
एतास्तिस्रः समृतास्तस्य दिव्याः संभूतयः शुभाः
त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह
पञ्चमः पञ्चदश्यां तु त्रेतायां संबभूव ह
एकोनविंशयां त्रेतायां सर्वक्षत्रान्तकृद्विभुः
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा
अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात्
तथैव नवमे विष्णुरदित्याः कश्यपात्मजः
अप्रमेयो नियोगश्च यतकामवरो वशी
न प्रमातुं महाबाहुं शक्यो ऽसौ मधुसूदनः
अष्टाविंशतिके तद्वद्द्वापरस्याथ संक्षये
माहयन्सर्वभूतानि योगात्मा योगमायया
प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम्
यत्र कंसं च शाल्वं च द्विविदं च महासुरम्
नागं कुवलयापीडं मल्लं राजगृहाधिपम्
छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणा
हृतानि च महीपानां सर्वरत्नानि तेजसा
एते लोकहितार्थाय प्रादुर्भावा महात्मनः
कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान्