सूर्यस्य यत्प्रकाशेन वीक्षन्ते चक्षुषा प्रजाः
अद्यते पीयते चैव ह्यन्नपानादिकाम्यया
यया धत्ते प्रजाः सर्वाः स्थिरीभूतेन तेजसा
या च स्थिता शरीरेषु भूतानां प्राणवृत्तिभिः
पीताशितानि पचति भूतानां जठरेष्विह
यानीह शुषिराणि स्युर्देहेष्वन्तर्गतानि वै
वैतान्यादीक्षितानां तु या स्थितिर्ब्रह्मवादिनाम्
यत्तु संकल्पकं तस्य प्रजास्विह समास्थितम्
नवोनवो यो भवति जायमानः पुनःपुनः
महादेवो ऽमृतात्मा स चन्द्रमा अम्मयः स्मृतः
पत्नी सुवर्च्चला तस्याः पुत्रश्चास्य शनैश्चरः
तस्या धात्री स्मृता पत्नी पुत्रश्च उशना स्मृतः
तस्याः पत्नी विकेशी तु पुत्रो ऽस्याङ्गारकः स्मृतः
तस्याः पत्नी शिवा नाम पुत्रश्चास्या मनोजवः
नाम्ना पशुपतेर्या तु तनुरग्निर्द्विजैः स्मृता
नाम्ना षष्ठस्य या भीमा तनुराकाशमुच्यते
अग्रा तनुः सप्तमी या दीक्षितो ब्राह्मणः स्मृतः
नाम्नाष्टमस्य महस्तनुर्या चन्द्रमाः स्मृतः
इत्येतास्तनवस्तस्य नामभिः सह कीर्तिताः
सूर्येप्सूर्व्यां तथा वायावग्नौ व्योम्न्यथ दीक्षिते
एवं यो वेत्ति तं देवं तनुभिर्नामभिश्च ह
इत्येतद्वो मया प्रोक्तं गुह्यं भीमास्य यद्यशः
महादेवस्य देवस्य भृगोस्तु शृणुत प्रजाः
शुभाशुभप्रदातारौ सर्वप्राणभृतामिह
तयार्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी
नारायणात्मजौ तस्यां बलोन्मादौव्यजायताम्
तस्यान्ये मानसाः पुत्रा आसन् व्योमविचारिणः
मेरुकल्पे स्मृते भार्ये विधातुर्धातुरेव च
प्राणश्चैव मृकण्डश्च ब्रह्मकोशौ सनातनौ
सुतो वेदशिरास्तस्य धूम्रपत्न्यामजायत