तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति
तस्मान्निरुत्सुकस्त्वं वै पर्यायं सहसाकुलः
ब्रह्मणा प्रतिषिद्धो ऽस्मि भविष्यं जानता प्रभो
दैवतैः सह संरब्धान्सर्वान्वो धारयिष्यतः
ततस्ताभ्यां ययुः सार्द्धं प्रह्लादप्रमुखास्तदा
सहसा शंसमानास्ते जयं काव्येन भाषितम्
अथ देवासुरान्दृष्ट्वा संग्रामे समुपस्थितान्
अजयन्तासुरा देवान्नग्रा देवा अमन्त्रयन्
तस्माद्यज्ञं समुद्दिश्य कार्यं चात्महितं च यत्
अथोपामन्न्रयन्देवाः शण्डामकारै तु तावुभौ
यज्ञे चाहूय तौ प्रोक्तौ त्यजन्तामसुरा द्विजौ
एवं तत्यजतुस्तौ तु षण्डामकारै तदा सुरान्
देवासुरान्पराभाव्य शण्डामर्कावुपागमन्
बाध्यमानास्तदा देवैर्विविशुस्ते रसातलम्
ततः प्रभृति शापेन भृगुनैमित्तिकेन च
कर्तुं धर्मव्यवस्थान मधर्मस्य प्रणाशनम्
मनुष्यवध्यांस्तान्सर्वान्ब्रह्मा व्याहरत प्रभुः
यज्ञं प्रवर्त्तयामास वैन्यो वैवस्वते ऽन्तरे
चतुर्थ्यां तु युगाख्यायामापन्नेषु सुरेष्वथ
द्वितीयो नरसिंहो ऽभूद्रौद्रः सुतपुरस्सरः
द्विजो भूत्वा शुभे काले बलिं वैरोचनं जगौ
दातुमर्हसि मे राजन्विक्रमांस्त्रीनिति प्रभुः
वामनं तं च विज्ञाय ततो ऽदान्मुदितः स्वयम्
त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः
प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः
आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्द्दनः
नमुचिः शंबरश्चैव प्रह्रादश्चैव विष्णुना
महाभूतानि भूतात्मा सविशेषाणि माधवः
तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति
तद्वै रूपमुपेन्द्रस्य देवादानवमानवाः