संप्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन
आचार्यो यो ह्ययं काव्यो देवायार्यो ऽयमङ्गिराः
एवमुक्ते तु ते सर्वे तावुभौ समवेक्ष्य च
बृहस्पतिरुवाचैनामं भ्रातो ऽयमङ्गिराः
संमोहयति रूपेण मामकेनैष वो ऽसुराः
अयं नो दशवर्षाणि सततं शास्ति वै प्रभुः
ततस्तेदानवाः सर्वे प्रणिपत्याभिवाद्य च
ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः
भार्गवो ऽगिरसो वायं भवत्वेषैव नो गुरुः
एवमुक्त्वा सुराः सर्वे प्रापद्यन्त बृहस्पतिम्
चुकोप भार्गवस्ते षामवलेपेन वै तदा
तस्मात्प्रणष्टसंज्ञा वै पराभवमवाप्स्यथ
शप्तांस्तानसुराञ्ज्ञात्वा काव्येन तु बृहस्पतिः
बुद्ध्वासुरांस्तदा ब्रष्टान्कृतार्थोंऽतर्द्धिमागमत्
अहो धिग्वञ्चिताः स्नेहात्परस्परमथाब्रुवन्
दग्धाश्चैवोपधायोगात्स्वेस्वे कार्ये तु मायया
प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः
तानागतान्पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह
ततस्तेनावलेपेन गता यूयं पराभवम्
स्वान्याज्यान्भजमानांश्च भक्तांश्चैव विशेषतः
भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा
अपध्यातास्त्वया ह्यद्य प्रवेक्ष्यामोरसातलम्
एवं शुक्रो ऽनुनीतः संस्ततः कोपं न्यवर्त्तयत्
अवश्यंभावीह्यर्थो ऽयं प्राप्तो वो मयि जाग्रति
संज्ञा प्रनष्टा या चेयं कामं तां प्रतिलप्स्यथ
मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्ज्जितम्
तावन्तमेव कालं वै ब्रह्मा राज्यमभाषत
लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः
तथाहृतेषु लोकेषु न शोको न किलाभवत्
तस्मादजेन प्रीतेन दत्तं सावर्णिके ऽन्तरे