प्रीत्यर्थे दश वर्षाणि जयन्त्या हितकाम्यया
काव्यस्य रूपमास्थाय सो ऽसुरान्समभाषत
स्वागतं मम याज्यानां संप्राप्तो ऽस्मि हिताय च
ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे
समयान्ते देवयाजी सद्यो जातमतिस्तदा
देवि गच्छाम्यहं द्रष्टुं तव याज्याञ्छुचिस्मिते
एष ब्रह्मन्सतां धर्मो न धर्मं लोपयामि ते
ततो गत्वा सुरान्दृष्ट्वा देवाचार्येण धीमता
काव्यं मामनुजानीध्वमेष ह्याङ्गिरसो मुनिः
श्रुत्वा तथा ब्रुवाणं तं संभ्रान्ता दितिजास्ततः
संप्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन
आचार्यो यो ह्ययं काव्यो देवायार्यो ऽयमङ्गिराः
एवमुक्ते तु ते सर्वे तावुभौ समवेक्ष्य च
बृहस्पतिरुवाचैनामं भ्रातो ऽयमङ्गिराः
संमोहयति रूपेण मामकेनैष वो ऽसुराः
अयं नो दशवर्षाणि सततं शास्ति वै प्रभुः
ततस्तेदानवाः सर्वे प्रणिपत्याभिवाद्य च
ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः
भार्गवो ऽगिरसो वायं भवत्वेषैव नो गुरुः
एवमुक्त्वा सुराः सर्वे प्रापद्यन्त बृहस्पतिम्
चुकोप भार्गवस्ते षामवलेपेन वै तदा
तस्मात्प्रणष्टसंज्ञा वै पराभवमवाप्स्यथ
शप्तांस्तानसुराञ्ज्ञात्वा काव्येन तु बृहस्पतिः
बुद्ध्वासुरांस्तदा ब्रष्टान्कृतार्थोंऽतर्द्धिमागमत्
अहो धिग्वञ्चिताः स्नेहात्परस्परमथाब्रुवन्
दग्धाश्चैवोपधायोगात्स्वेस्वे कार्ये तु मायया
प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः
तानागतान्पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह
ततस्तेनावलेपेन गता यूयं पराभवम्
स्वान्याज्यान्भजमानांश्च भक्तांश्चैव विशेषतः