स्नेहेन चैव सुश्रोणि प्रीतो ऽस्मि वरवर्णिनि
तं ते संपूरयाम्यद्य यद्यपि स्यात्सुदुर्लभः
चिकीर्षितं मे ब्रह्मिष्ठ त्वं हि वेत्थ यथातथम्
माहेन्द्री त्वं वरारोहे मद्धितार्थमिहागता
अदृश्यं सर्वभूतैस्तु संप्रयोगमिहेच्छसि
इमं वृणीष्व कामं त्वं मत्तो वै वल्गुभाषिणि
ततः स्वगृहमागम्य जयत्या सहितः प्रभुः
अदृश्यः सर्वभूतानां मायया संवृतस्तदा
अभिजग्सुर्गृहं तस्य मुदितास्तं दिदृक्षवः
लक्षमं तस्य तद् बुद्ध्वा प्रतिजग्मुर्यथागतम्
प्रीत्यर्थे दश वर्षाणि जयन्त्या हितकाम्यया
काव्यस्य रूपमास्थाय सो ऽसुरान्समभाषत
स्वागतं मम याज्यानां संप्राप्तो ऽस्मि हिताय च
ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे
समयान्ते देवयाजी सद्यो जातमतिस्तदा
देवि गच्छाम्यहं द्रष्टुं तव याज्याञ्छुचिस्मिते
एष ब्रह्मन्सतां धर्मो न धर्मं लोपयामि ते
ततो गत्वा सुरान्दृष्ट्वा देवाचार्येण धीमता
काव्यं मामनुजानीध्वमेष ह्याङ्गिरसो मुनिः
श्रुत्वा तथा ब्रुवाणं तं संभ्रान्ता दितिजास्ततः
संप्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन
आचार्यो यो ह्ययं काव्यो देवायार्यो ऽयमङ्गिराः
एवमुक्ते तु ते सर्वे तावुभौ समवेक्ष्य च
बृहस्पतिरुवाचैनामं भ्रातो ऽयमङ्गिराः
संमोहयति रूपेण मामकेनैष वो ऽसुराः
अयं नो दशवर्षाणि सततं शास्ति वै प्रभुः
ततस्तेदानवाः सर्वे प्रणिपत्याभिवाद्य च
ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः
भार्गवो ऽगिरसो वायं भवत्वेषैव नो गुरुः
एवमुक्त्वा सुराः सर्वे प्रापद्यन्त बृहस्पतिम्