महादेवाय सर्वाय विश्वरूपशिवाय च
धाम्ने चैव पिशङ्गाय पिङ्गलायारुणाय च
मृगव्याधाय सर्वाय स्थाणवे भीषणाय च
कपिलोयैकवीराय मृत्यवे त्र्यंबकाय च
आरण्याय गृहस्थाय यतिने बह्मचारिणे
अन्तर्हिताय सर्वाय तप्याय व्यापिने तथा
रोधसे चैकितानाय ब्रह्मिष्ठाय महार्षये
शिखण्डिने कपालाय दण्डिने विश्वमेधसे
क्रूराय विकृतायैव बीभत्साय शिवाय च
पिशिताशाय शर्वाय मेघाय वैद्युताय च
अनामयाय चेध्माय हिरण्यायैकचक्षुषे
महाकल्पाय दीप्ताय रोदनाय हसाय च
भृगुनाथाय शुक्राय गह्वरिष्ठाय धीमते
दिग्वासः कृत्तिवासाय भगघ्नाय नमो ऽस्तु ते
प्रभवे ऋग्यजुःसाम्ने स्वाहायै च सुधाय च
स्रष्ट्रे धात्रे तथा कर्त्रे हर्त्रे च क्षपणाय च
वसवे चैव साध्याय रुद्रादित्याश्विनाय च
अग्नीषोमविधिज्ञाय पशुमन्त्रौ षधाय च
तपसे चैव सत्याय त्यागाय च शमाय च
सर्वभूतात्प्रभूताय तुभ्यं योगात्मने नमः
जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः
तन्मात्रायाथ महते तुभ्यं तत्त्वात्मने नमः
शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः
सत्यान्तमहराद्येषु चतुर्षु च नमो ऽस्तु ते
मद्भक्त इतिब्रह्मण्य सर्वं तत्क्षन्तुमर्हसि
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे स्तवसमाप्तिर्नाम द्विसप्ततितमो ऽध्यायः
प्रह्वो ऽतिप्रणतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत्
निकामं दर्शनं दत्त्वा तत्रैवान्तरधाद्धरः
तिष्ठन्तीं प्राजलिर्भूत्वा जयन्तीमिदमब्रवीत्
सहता तपसा युक्तं किमर्थं मां जिगीष्सि