प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ
हर्षात्प्रादुर्बभौ तस्य दिव्यं स्तोत्रं महेशितुः
नमो ऽस्तु शितिकण्ठाय सुराद्याय सुवर्चसे
कपर्दिने ह्यूर्द्ध्वरोम्णे हर्यक्षवरदाय च
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे
निस्वाय मुक्तकेशाय सेनान्ये रोहिताय च
गिरिशायार्कनेत्राय यतये चाज्यपाय च
सहस्रबाहवे चैव सहस्रामलचक्षुषे
सहस्रशिरसे चैव बहुरूपाय वेधसे
निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च
महादेवाय सर्वाय विश्वरूपशिवाय च
धाम्ने चैव पिशङ्गाय पिङ्गलायारुणाय च
मृगव्याधाय सर्वाय स्थाणवे भीषणाय च
कपिलोयैकवीराय मृत्यवे त्र्यंबकाय च
आरण्याय गृहस्थाय यतिने बह्मचारिणे
अन्तर्हिताय सर्वाय तप्याय व्यापिने तथा
रोधसे चैकितानाय ब्रह्मिष्ठाय महार्षये
शिखण्डिने कपालाय दण्डिने विश्वमेधसे
क्रूराय विकृतायैव बीभत्साय शिवाय च
पिशिताशाय शर्वाय मेघाय वैद्युताय च
अनामयाय चेध्माय हिरण्यायैकचक्षुषे
महाकल्पाय दीप्ताय रोदनाय हसाय च
भृगुनाथाय शुक्राय गह्वरिष्ठाय धीमते
दिग्वासः कृत्तिवासाय भगघ्नाय नमो ऽस्तु ते
प्रभवे ऋग्यजुःसाम्ने स्वाहायै च सुधाय च
स्रष्ट्रे धात्रे तथा कर्त्रे हर्त्रे च क्षपणाय च
वसवे चैव साध्याय रुद्रादित्याश्विनाय च
अग्नीषोमविधिज्ञाय पशुमन्त्रौ षधाय च
तपसे चैव सत्याय त्यागाय च शमाय च
सर्वभूतात्प्रभूताय तुभ्यं योगात्मने नमः