देवी क्रुद्धाब्रवीदेनाननिन्द्रत्वं करोम्यहम्
ततः संस्तंभितं दृष्ट्वा शक्रं देवास्तु मूढवत्
गतेषु सुरसंघेषु विष्मुरिन्द्रमभाषत
एवमुक्तस्ततो विष्णुः प्रविवेश पुरन्दरः
एषा त्वां विष्णुना सार्द्ध दहामि मघवन्बलात्
तयाभिभूतौ तौ देवाविन्द्राविष्णू जजल्पतुः
इन्द्रो ऽब्रवीज्जहि ह्येनां यावन्नो न दहे द्विभो
ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्त्तुमास्थितः
तस्याः संत्वरमाणायाः शीघ्रङ्कारी मुरारिहा
क्रुद्धस्तदस्त्रमाविध्य शिरश्चिच्छेद माधवः
ततो ऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा
तस्मात्त्वं सप्तकृत्वो वै मनुष्येषु प्रपद्यसे
सर्वलोक हितार्थाय जायते मानुषेष्विह
समानीय ततः काये समायोज्येदमब्रवीत्
यदि कृत्स्नो मया धर्मश्चरितो ज्ञायते ऽपि वा
सत्याभिव्यहृतात्तस्य देवी संजीविता तदा
ततस्तां सर्वभूतानां दृष्ट्वा सुप्तोत्थितामिव
दृष्ट्वा संजीवितामेवं देवीं तां भृगुणा तदा
असंभ्रान्तेन भृगुणा पत्नी संजीवितां ततः
प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम्
एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः
गच्छ संभावयस्वैनं श्रमापनयनैः शुभे
देवी सारीन्द्रदुहिता जयन्ती शुभचारिणी
पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा
गात्रसंवाहनैः काले सेवमाना त्वचासुखैः
पूर्णं धूमव्रते चापि घोरे वर्षसहस्रके
एवं व्रतं त्वयैकेन चीर्णं नान्येन केन चित्
तेजसा वापि विबुधान्सर्वानभिभविष्यसि
सांग च सरहस्यं च यज्ञोपनिषदस्तथा
सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि