प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे
जघ्नुस्तैर्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः
समारक्षत संत्रस्तान्देवेभ्यस्तान्दितेः सुतान्
तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन्
बलिर्बद्धो हतो जंभो निहतश्च विरोचनः
तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः
नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम्
अग्निमाप्याययेद्धोता मेत्रैरेष दहिष्यति
युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः
न वै देवा वाधिष्यन्ति यावदागमनं मम
योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम्
न्यस्तशस्त्रा वयं सर्वे लोकान्यूयं क्रमन्तु वै
प्रह्लादस्य वचः श्रुत्वा सत्यानुव्यात्दृतं तु तत्
न्यस्तशस्त्रेषु दैत्येषु स्वान्वै जग्मुर्यथागतान्
निरुत्सुकास्तपोयुक्ताः कालः कार्यार्थसाधकः
स संदिश्यसुरान्काव्यो महोदेवं प्रपद्य च
मन्त्रानिच्छामि हे देव ये न संति बृहस्पतौ
एवमुक्तो ऽब्रवीद्देवो मन्त्रानिच्छसि वै द्विज
पूर्मं वर्षसहस्रं वै कुण्डधूममवाक्शिराः
तथोक्तो देवदेवेन स शुक्रस्तु महातपाः
व्रतं चराम्यहं देव यथोद्दिष्टो ऽस्मि वैप्रभो
असुराणां हितार्थाय तस्मिञ्छुक्रे गते तदा
तद्बुद्ध्वा नीतिपूर्वं तु राष्ट्रं न्यस्तं तदासुरैः
प्रगृहीतायुधाः सर्वे बृहस्पतिपुरोगमाः
उत्पेतुः सहसा सर्वे संत्रस्तास्ते ततो ऽभवन्
संत्यज्य समयं देवास्ते सपत्नजिघांसवः
चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः
अयुद्धेन प्रपद्यामः शरणं काव्यमातरम्
दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम्
अभिजघ्नुः प्रसह्यैतान्विचार्य च बलाबलम्