तेषां द्वीपनिमित्तं वै संग्रामा बहवो ऽभवेन्
नामतस्तु समासेन शृणुध्वं तान्विवक्षतः
तृतीयः स तु वाराहश्चतुर्थो ऽमृतमन्थनः
षष्ठो ह्याडीबकस्तेषां सप्तमस्त्रैपुरः स्मृतः
वार्त्रश्च दशमो घोरस्ततो हालाहलः स्मृतः
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः
हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे च दैवते
दंष्ट्रया तु वराहेण स दैत्यस्तु द्विधाकृतः
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः
भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः
अशक्नुवत्सु देवेषु परं सोढुमदैवतम्
अथ दैत्याः सुराश्चैव राक्षसास्त्वन्धकारिके
सवृत्रान्दानवांश्चैव संगतान्कृत्स्नशश्च तान्
हतो ध्वजे महेन्द्रेण मयाछत्रश्च योगवित्
दैत्यांश्च दानवांश्चैव संहतान्कृत्स्नशश्च तान्
रजिः कोलाहले सर्वान्दैत्यान्परिवृतो ऽजयत्
एते देवासुरा वृत्ताः संग्रामा द्वादशैव तु
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ
अशीतिश्च सहस्राणि त्रैलोक्यस्येश्वरो ऽभवत्
षष्टिश्चैव सहस्राणि त्रिंशच्च नियुतानि च
प्रह्लादो निर्जितो ऽभूच्च तावत्कालं सहासुरैः
दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल
त्रैलोक्यमिदमव्यग्रं महेन्द्रो ह्यभ्ययाद्बलेः
पर्यायेणैव संप्राप्तं त्रैलोक्यं पाकशासनम्
यज्ञे देवानथ गते काव्यं ते ह्यसुरां ब्रुवन्
स्थातुं न शक्रुमो ह्यद्य प्रविशाम रसातलम्
माभैष्ट धारयिष्यामि तेजसा स्वेन वः सुराः
कृत्स्नानि ह्यपि तिष्ठन्तु पापस्तेषां सुरेषु वै
ततो देवासुरान्दृष्ट्वा धृतान्काव्येन धीमता
एष काव्य इदं सर्वं व्यावर्त्तयति नो बलात्