विनयो नयतृप्तानां तेजस्तेजस्विनामपि
आकाशप्रभवो वायुर्वायुप्राणो हुताशनः
रसाच्छोणितसंभूतिः शोणितान्मासमुच्यते
अस्य्नो मज्जा समभवन्मज्जातः शुक्रसंभवः
तत्रापां प्रथमावापः स सौम्यो राशिरुच्यते
शुक्रं सोमात्मकं विद्यादार्त्तवं पावकात्मकम्
कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम्
देहस्य मध्ये त्दृदयं स्थानं तु मनसः स्मृतम्
मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते
एवं प्रवर्त्तिते गर्भे वृत्ते कर्कन्धुसंनिभे
स पञ्चधा शरीरस्थो विद्यते वर्द्धयेत्पुनः
प्राणो ऽस्य परमात्मानं वर्द्धयन्परिवर्त्तते
व्यानो व्यानीयते येन समानः सर्वसंधिषु
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम्
ज्योतिश्चक्षुषि कोष्ठो ऽस्मात्तेषां यन्नामतः स्मृतम्
इत्येतान्पुरुषः सर्वान्सृजत्येकः सनातनः
एष नः संशयो धीमन्नेष वै विस्मयो महान्
श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम्
विष्णोरुत्पत्तिमाश्चय कथयस्व महामते
कर्मणाश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यते
अहं वः कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः
भृगुस्त्रीवधदोषेण भृगुशापेन मानुषे
तस्य दिव्यां तनुं विष्णोर्गदतो मे निबोधत
भृगोः शापनिमित्तेन देवासुरकृतेन च
एतद्वेदितुमिच्छामो वृत्तं देवासुरं कथम्
देवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत
बलिनाधिष्ठितं राज्यं पुनर्लोकत्रये क्रमात्
युगाख्या दश संपूर्णा ह्यासीदव्याहतं जगत्
बद्धे बलौ विवादो ऽथ संप्रवृत्तः सुदारुणः