यश्चक्रं वर्त्तयत्येको मनुष्याणां मनोमयम्
गोपायन यः कुरुते जगतः सर्वकालिकम्
महाभूतानि भूतात्मा यो दधार चकार ह
येन लोकान्क्रमैर्जित्वा सश्रीकास्त्रिदशाः कृताः
ददौ जितां वसुमतीं सुराणां सुरसत्तमः
पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः
पातालस्थोर्ऽणवगतः पपौ तोयमयं हविः
सहस्रशिरसं देवं यमाहुर्वै युगे युगे
एकार्णवगते लोके तत्पङ्कजमपङ्कजम्
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः
यः शेतेशश्वतं योगमाच्छाद्य तिमिरं महत्
शक्रं च यो दैत्यगणं च रूद्धं गर्भावमानेन भृशं चकार ह
कृत्वा च देवांस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव
गार्हपत्येन विधिना अन्वाहार्येण कर्मणा
प्रोक्षणीयं श्रुतं चैव आवभृथ्यं तथैव च
भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि
यज्ञियानि च द्रव्याणि यज्ञियांश्च तथानलान्
विचित्रान्राजसूयदीन्पारमेष्ठ्येन कर्मणा
क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च
ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु
मेधावित्वं च शौर्यं च शास्त्रस्येव च पारणम्
त्रैकाल्यं त्रीणि कर्माणि तिस्रो मात्रा गुणास्त्रयः
सर्वभूतगणाः सृष्टाः सर्वभूतगणात्मना
गतागतानां यो नेता सर्वत्र विविधेश्वरः
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता
दिगन्तरं नभो भूमिरापो वायुर्विभावसुः
यः परं श्रुयते देवो यः परं श्रूयते तपः
आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः
सेतुर्यो लोकसेतूनां मेधो यो मध्यकर्मणाम्
सोमभूतस्तु भूतानामग्निभूतो ऽग्निवर्चसाम्