संकर्षणो वासुदेवः प्रद्युम्नः सांब एव च
सप्तर्ष्यः कुबेरश्च यज्ञे मणिवरस्तथा
आदिदेव स्तदा विष्णुरेभिश्च सह दैवतैः
भविष्याः कति चान्ये च प्रादुर्भावा महात्मनः
पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम्
विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः
कर्मणामानुपूर्वीं च प्रादुर्भावाश्च ये प्रभो
कथं स भगवान्विष्णुः सुरेष्वरिनिषूदनः
अमरैरावृतं पुण्यं पुण्यकृद्भिरलङ्कृतम्
देवमानुषयोर्नेता धातुर्यः प्रसवो हरिः
यश्चक्रं वर्त्तयत्येको मनुष्याणां मनोमयम्
गोपायन यः कुरुते जगतः सर्वकालिकम्
महाभूतानि भूतात्मा यो दधार चकार ह
येन लोकान्क्रमैर्जित्वा सश्रीकास्त्रिदशाः कृताः
ददौ जितां वसुमतीं सुराणां सुरसत्तमः
पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः
पातालस्थोर्ऽणवगतः पपौ तोयमयं हविः
सहस्रशिरसं देवं यमाहुर्वै युगे युगे
एकार्णवगते लोके तत्पङ्कजमपङ्कजम्
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः
यः शेतेशश्वतं योगमाच्छाद्य तिमिरं महत्
शक्रं च यो दैत्यगणं च रूद्धं गर्भावमानेन भृशं चकार ह
कृत्वा च देवांस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव
गार्हपत्येन विधिना अन्वाहार्येण कर्मणा
प्रोक्षणीयं श्रुतं चैव आवभृथ्यं तथैव च
भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि
यज्ञियानि च द्रव्याणि यज्ञियांश्च तथानलान्
विचित्रान्राजसूयदीन्पारमेष्ठ्येन कर्मणा
क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च
ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु