या गर्भं जनयामास या वैनं याभ्यवर्द्धयत्
कश्यपो ब्रह्मणोंऽशश्च पृथिव्या आदितिस्तथा
अथ कामान्महाबाहुर्देवक्याः संप्रवर्द्धयन्
मोहयन्सर्वभूतानि योगात्मा योगमायया
कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्
सत्राजितः सत्यभामा जांबवत्यपि रोहिणी
चतुर्दश तु ये प्रोक्ता गणास्त्वप्सरसां दिवि
पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु
प्रद्युम्नश्चारुदेष्णश्च सुदेवः शरभस्तथा
चारुविद्यश्च रुक्मिण्यां कन्या चारुमती तथा
जरो ऽधकस्ताम्रचक्रौ सौभरिश्च जरेधरः
भानुः सौभरिका चैव ताम्रपर्णी जरन्धरः
भद्रश्च भद्रगुप्तश्च भद्रचित्रस्तथैव च
संबोधनी च विख्याता ज्ञेया जांबवतीसुताः
एते पुत्राः सुदेव्यां च विष्वक्सेनस्य कीर्त्तिताः
मित्रबाहुः सुनीथश्च नाग्नजित्या प्रजास्त्विह
प्रयुतं तु समाख्यातं वासुदेवस्य ये सुताः
जनार्दनस्य वंशो वः कीर्तितो ऽयं यथातथम्
कन्या सा बृहदुक्थस्य शैनेयस्य महात्मनः
आनन्दः कनकः श्वेतः कन्या श्वेता तथैव च
चित्रसेनः स्मृतश्चास्य कन्या चित्रवती तथा
उपासंगसुतौ द्वौ तु वज्रारः क्षिप्र एव च
युधिष्टिरस्य कन्यायां सुधनुस्तस्य चात्मजः
सत्यप्रकृतयो देवाः पञ्च वीराः प्रकीर्त्तिताः
सर्वमेव कुलं यच्च वर्त्तन्ते चैव ये कुले
निदेशस्थायिभिस्तस्य बध्यन्ते सुरमानुषाः
इहोत्पन्ना मनुष्येषु बाधन्ते ते तु मानवान्
समुत्पन्नं कुलशतं यादवानां महात्मनाम्
कीर्त्तिता कीर्त्तनीया स कीर्त्तिसिद्धिमभीप्सता
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपदे वृष्णिवंशानुकीर्त्तनं नामैकसप्ततितमो ऽध्यायः