ततो ऽब्रवीत्पुनर्ब्रह्मा कुमारं नीललोहितम्
तस्य भूमिस्तृतीयस्य तनुर्नाम्ना भवत्त्वियम्
विवेश तत्तदा भूमिं यस्मात्सा शर्व उच्यते
न च्छायायां तथा मार्गे स्वच्छायायां न मेहयेत्
एवं यो वर्तते भूमौ शर्वस्तं न हिनस्ति वै
ईशानेति चतुर्थ ते नाम प्रोक्तं मयेह यत्
इत्युक्ते यच्छरीरस्थं पञ्चधा प्राणसंज्ञितम्
तस्मान्नैनं परिवदेत्प्रवान्तं वायुमीश्वरम्
एवं युक्तं महेशानो नैव देवो हिनस्ति तम्
नाम यद्वै पशुपतिरित्युक्तं पञ्चमं मया
इत्युक्ते यच्छरीरस्थं तेजस्तस्योष्णसंज्ञितम्
यस्मादग्निः पशुश्चासीद्यस्मात्पाति पशूंश्च सः
तस्मादमेद्यं न दहेन्न च पादौ प्रतापयेत्
नैनं पशुपतिर्देव एवं युक्तं हिनस्ति वै
षष्टं नाम मया प्रोक्तं तव भीमेति यत्प्रभो
इत्युक्ते सुषिरं तस्य शरीरस्थमभूच्च यत्
यदाकाशे स्मृतो देवस्तस्मान्ना संवृतः क्वचित्
मैथुनं वापि न चरेदुच्छिष्टानि च नोत्क्षिपेत्
ततो ऽब्रवीत्पुनर्ब्रह्मा तं देवं सबलं प्रभुम्
तस्य नाम्नस्तनुस्तुभ्यं द्विजो भवति दीक्षितः
विवेश दीक्षितं तद्वै ब्राह्मणं सोमयाजिनम्
तस्मान्नेमं परिवदेन्नाश्लीलं चास्य कीर्त्तयेत्
एवं युक्तान् द्विजानुग्रो देवस्तान्न हिनस्ति वै
अष्टमं नाम यत् प्रोक्तं महादेवेति ते मया
इत्युक्ते यन्मन स्तस्य संकल्पकमभूत्प्रभोः
तस्माद्विभाव्यते ह्येष महादेवस्तु चन्द्रमाः
महादेवः स्मृतः सोमस्तस्यात्मा ह्यौषधीगणः
न हन्ति तं महादेवो य एवं वेद तं प्रभुम्
एकरात्रौ समेयातां सूर्या चन्द्रमसावुभौ
रुद्राविष्टं सर्वमिदं तनुभिर्न्नामभिश्च ह