आकाशात्पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः
महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः
श्रीवत्सलक्षणं दृष्ट्वा हृदि दिव्यैः स्वलक्षणैः
भीतो ऽहं कंसतस्तात तस्मादेवं ब्रवीम्यहम्
वसुदेववचःश्रुत्वा रूपं संहृतवान्प्रभुः
उग्रसेनगृहे ऽतिष्ठद्यशोदायै तदा ददौ
यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः
तामेव रजनीं कन्या यशोदायां व्यजायत
प्रादात्पुत्रं यशोदायै कन्यां तु जगृहे स्वयम्
सुतस्ते सर्वकल्याणो यादवानां भविष्यति
उग्रसेनात्मजायाथ कन्यामानकदुन्दुभिः
स्वसुस्तु तनयं कंसो जातं नैवावधारयत्
न हन्मीमां महाबाहो व्रजत्वेषा यथारुचि
पुत्रवत्पालयामास देवी देवीं मुदा तदा
एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह
देवदेवो दिव्यवपुः कृष्णः संरक्षितो ऽनया
जघान पुत्रान्बालान्वै तन्नो व्याख्यातुमर्हसि
जाताञ्जातास्तु तान्सर्वान्निष्पिपेष वृथामतिः
यथा च गोषु गोविन्दः संवृद्धः पुरुषोत्तमः
सारथ्यं कृतवान्कंसो युवराजस्तदाभवत्
कंसस्य नाममात्रेण पुष्कला लोकसाक्षिणी
तस्या यश्चाष्टमो गर्भः स ते मृत्युर्भबिष्यति
निष्कृष्य खड्गं तां कन्यां हन्तुकामो ऽभवत्तदा
उग्रसेनात्मजं कसं सौत्दृदात्प्रणयेन वा
उपायः परिदृष्टो ऽत्र मया यादवनन्दन
तमहं ते प्रयच्छामि तत्र कुर्या यथाक्रमम्
सर्वानप्यथ वा गर्भान्पृथङ्नेष्यामि ते वशम्
एवमुक्तो ऽनुनीतः स जग्राह वचनं तदा
कंसस्तस्यावधीत्पुत्रान्पापकर्मा वृथामतिः
नन्दगोपस्तु कस्त्वेष यशोदा य महायशाः