जरा नाम निषादो ऽसौ प्रथमः स धनुर्द्धरः
पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम्
निवृत्तशत्रुं शत्रुघ्नं श्राद्धदेवं महाबलम्
एकलव्यो महाभागो निषादैः परिवर्द्धितः
चारुदेष्णं च सांबं च कृतास्त्रौ शस्तलक्षणौ
वृकाय वै त्वपुत्राय वसुदेवः प्रतापवान्
सृंजयस्य धनुश्चैव विरजाश्च सुताविमौ
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान्
श्रावयेद्ब्राह्मणंवापि स महात्सुखमवाप्नुयात्
विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः
चतुर्बाहुस्तु संजज्ञे दिव्यरूपश्रियान्वितः
अव्यक्तो व्यक्तलिङ्गश्च स एव भगवान्प्रभुः
देवो नारायणो भूत्वा हरिरासीत्सनातनः
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः
प्रासादयन्यं च विभुं ह्यदित्याः पुत्रकारणे
ययातिवंशजस्याथ वसुदेवस्य धीमतः
सागराः समकंपत चेलुश्च धरणीधराः
शिवाश्च प्रववुर्वाताः प्रशान्तमभवद्रजः
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी
अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः
आकाशात्पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः
महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः
श्रीवत्सलक्षणं दृष्ट्वा हृदि दिव्यैः स्वलक्षणैः
भीतो ऽहं कंसतस्तात तस्मादेवं ब्रवीम्यहम्
वसुदेववचःश्रुत्वा रूपं संहृतवान्प्रभुः
उग्रसेनगृहे ऽतिष्ठद्यशोदायै तदा ददौ
यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः
तामेव रजनीं कन्या यशोदायां व्यजायत
प्रादात्पुत्रं यशोदायै कन्यां तु जगृहे स्वयम्
सुतस्ते सर्वकल्याणो यादवानां भविष्यति