शुल्कगुल्मो ऽतिगुल्मश्च दरिद्रान्तक एव च
अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा
भद्राश्वो भद्रगुप्तिश्च भद्रविष्टस्तथैव च
सुपार्श्वकः कीर्त्तिमांश्च रोहिताश्वः शठात्मजाः
नन्दोपनन्दौ मित्रश्च कुक्षिमित्रस्तथा बलः
मदिरायाः सुता एते वसुदेवाद्धिजज्ञिरे
चत्वार एते विख्याता भद्रापुत्रा महाबलाः
देवक्यां जज्ञिरे सौरेः सुषेणः कीर्त्तिमानपि
षष्ठो हि भद्रदेवश्च कंसः सर्वाञ्जघान तान्
लोकनाथः पुनर्विष्णुः पूर्वं कृष्णः प्रजापतिः
कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी
वसुदेवस्य भार्यासु महाभागासु सप्तसु
पूर्वाद्याः सहदेवायां शूराद्वै जज्ञिरे सुताः
आगावहो महात्मा च वृकदेव्या मजायत
उपासंगं वसुं चापि तनयौ देवरक्षिता
विजयं रोचनं चैव वर्द्धमानं च देवलम्
सप्तमी देवकी पुत्रं सुनामानमसूयत
श्राद्धदेव्यां पुरोद्याने वने तु विचरन्द्विजाः
सुगन्धी वनराजी च शौरेरास्तां परिग्रहौ
तयो राजाभवत्पुण्ड्रः कपिलस्तु वनं ययौ
जरा नाम निषादो ऽसौ प्रथमः स धनुर्द्धरः
पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम्
निवृत्तशत्रुं शत्रुघ्नं श्राद्धदेवं महाबलम्
एकलव्यो महाभागो निषादैः परिवर्द्धितः
चारुदेष्णं च सांबं च कृतास्त्रौ शस्तलक्षणौ
वृकाय वै त्वपुत्राय वसुदेवः प्रतापवान्
सृंजयस्य धनुश्चैव विरजाश्च सुताविमौ
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान्
श्रावयेद्ब्राह्मणंवापि स महात्सुखमवाप्नुयात्
विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः