तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः
शमी च गदवर्मा च निदान्तः खलु शत्रुजित्
स्वयंभोजः स्वयंभोजाद्धृदिकः संबभूव ह
कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः
सुदान्तश्चाधिदान्तश्च कनकः कनकोद्भवः
असमौजाः सुतस्तस्य सुसमौजाश्च विश्रुतः
सुचन्द्रं वसुरूपं च कृष्ण इत्यन्धकाः स्मृताः
आत्मनो विपुलं वंशं लभते नात्र संशयः
मारिष्यां जज्ञिरे शूराद्भोजायां पुरुषा दश
जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि
पपात पुष्पवर्षं च शरस्य भवने महत्
यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा
अनाधृष्टिवृकश्चैव नन्दनश्चैव सृंजयः
पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुत श्रवाः
पृथां दुहितरं शूरः कुन्तिभोजाय वै ददौ
कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत
लोके प्रतिरथान्वीराञ्छक्रतुल्यपराक्रमान्
इन्द्राद्धनञ्जयं चैव पृथा पुत्रानजीचनत्
नकुलः सहदेवश्च रुपसत्त्वगुणान्वितौ
करूषाधिपतेर्ंवीरो दन्तवक्रो महाबलः
चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ
श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह
यः पुरा सदशग्रीवः संबभूवारिमर्दनः
वैश्रवाणानुजस्तस्य कुंभकर्णो ऽनुजस्तथा पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः
तथैव भद्रवैशाखी सुनाम्नी पञ्चमी तथा
धृतदेवोपदेवा च देवकी सप्तमी तथा
रोहिणी पौरवी चैव बाह्लीकस्यानुजाभवत्
ज्येष्ठे लेभे सुतं रामं सारणं हि शठं तथा
चित्रां नाम कुमारीं च रोहिण्यष्टौ व्यजायत
पार्श्वी च पार्श्वमर्दी च शिशुः सत्यधृतिस्तथा