निवसंती न वै जज्ञे गर्भस्थां तां पिताब्रवीत्
प्रोवाच चैनं गर्भस्था सा कन्या गां दिने दिने
तथेत्युवाच तां तस्याः पिता काममपूरयत्
तस्याः पुत्रः स्मृतो ऽक्रूरः श्वाफल्को भूरिदक्षिणः
गिरिरक्षस्ततो यक्षः शत्रुघ्नो ऽथारिमर्दनः
आवाहप्रतिवाहौ च वसुदेवा वराङ्गना
देववानुपदेवश्च जज्ञाते देवसंनिभौ
अश्वग्रीवो ऽश्ववाहश्च सुपार्श्वकगवेषणौ
अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ
कुकुरं भजमानं च शुचिं कंबल बर्हिषम्
कपोतरोमा तस्याथ विलोमाभवदात्मजः
ख्यायते यस्य नामान्यच्चन्दनोदकदुन्दुभिः
अश्वमेधं तु पुत्रार्थमाजहार नरोत्तमः
ततस्तु विद्वान्धर्मज्ञो दाता यज्वा पुनर्वसुः
आहुकश्चाहुकी चैव ख्यातौ मतिमतां वरौ
सोपासांगानुकर्षाणां सध्वजानां वरूथिनाम्
नासत्यवादी चासीत्तु नायज्ञो नासहस्रदः
आर्द्रकस्य धृतिः पुत्र इत्येवमनुशुश्रुम्
अशीतिमश्वनियुतान्याहुको ऽप्रतिमो व्रजन्
रूप्यकाञ्चनकक्षाणां स्रहस्राण्येकविंशतिः
भूमिपालस्य भोजस्य उत्तिष्टेत्किङ्कणी किल
आहुकात्काश्यदुहितुर्द्वै पुत्रौ संबभूवतुः
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः
तेषां स्वसारः सप्तासन्वसुदेवाय ता ददौ
श्रीदेवा शान्तिदेवा च सहदेवा तथापरा
नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः
सुतनू राष्ट्रपालश्च युद्धतुष्टश्च तुष्टिमान्
सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना
कुकुराणामिमं वंशं धारयन्नमितौजसाम्
भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः