निवृत्तं चाब्र वीत्कृष्णं रत्नं देहीति लाङ्गली
धिक्छब्दपूर्वमसकृत्प्रत्युवाच जनार्द्दनम्
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः
सर्वकामैरुपहृतैर्मैथिलेनैव पूजितः
नानारूपान्क्रतून्सर्वा नाजहार निरर्गलान्
स्यमन्तककृते प्राज्ञो कान्दिनीजो महामनाः
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान्
आनीतो द्वारकामेव कृष्णेन च महात्मना
युद्धे हत्वा तु शत्रुघ्नं सह बन्धुमता बली
भङ्गकारस्य तनयौ विश्रुतौ सुमहाबलौ
वधे च भङ्गकारस्य कृष्णो न प्रीतिमानभूत्
अपयाते ततो ऽक्रूरे नावर्षत्पाकशासनः
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः
प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः
अक्रूरः प्रददौ श्रीमान्प्रीत्यर्थं मुनिपुङ्गवाः
सभामध्ये तदा प्राह तमक्रूरं जनार्द्दनः
तत्प्रयच्छ स्वमानार्ह मयि मानार्यकं कृथाः
सुसंरूढो ऽसकृत्प्राप्तस्तदा कालात्ययो महान्
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः
ददौ हृष्टमनास्तुष्टस्तं मणिं बभ्रवे पुनः
आबध्य गान्दिनीपुत्रो विरराजांशुमानिव
वेद मिथ्याभिशप्तिं स न लभेत कथञ्चन
सत्यवान्सत्यसंपन्नः सत्यकस्तस्य चात्मजः
भूतेर्युगन्धरः पुत्र इति भौत्यः प्रकीर्त्तितः
जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकश्च यः
नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा
त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः
श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः
गान्दिनींनाम गां सा हि ददौ विप्राय नित्यशः