स्यमन्तको मार्गणीयस्तस्य प्रभुरहं प्रभो
स्यमन्तकं महाबाहो सामान्यं वो भविष्यति
शतधन्वा तमक्रूरमवैक्षत्सर्वतो दिशम्
शक्तो ऽपि शाठ्याद्धार्दिक्यो नाक्रूरो ऽभ्युपपद्यत
योजनानां शतं साग्रं हृदया प्रत्यपद्यत
भोजस्य वडवा दिव्या यया कृष्णमयोधयत्
दृष्ट्वा रथस्य तां वृद्धिं शतधन्वा समुद्रवत्
खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत्
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम्
मिथिलोपवने तं वै जघान परमास्त्रवित्
निवृत्तं चाब्र वीत्कृष्णं रत्नं देहीति लाङ्गली
धिक्छब्दपूर्वमसकृत्प्रत्युवाच जनार्द्दनम्
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः
सर्वकामैरुपहृतैर्मैथिलेनैव पूजितः
नानारूपान्क्रतून्सर्वा नाजहार निरर्गलान्
स्यमन्तककृते प्राज्ञो कान्दिनीजो महामनाः
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान्
आनीतो द्वारकामेव कृष्णेन च महात्मना
युद्धे हत्वा तु शत्रुघ्नं सह बन्धुमता बली
भङ्गकारस्य तनयौ विश्रुतौ सुमहाबलौ
वधे च भङ्गकारस्य कृष्णो न प्रीतिमानभूत्
अपयाते ततो ऽक्रूरे नावर्षत्पाकशासनः
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः
प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः
अक्रूरः प्रददौ श्रीमान्प्रीत्यर्थं मुनिपुङ्गवाः
सभामध्ये तदा प्राह तमक्रूरं जनार्द्दनः
तत्प्रयच्छ स्वमानार्ह मयि मानार्यकं कृथाः
सुसंरूढो ऽसकृत्प्राप्तस्तदा कालात्ययो महान्
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः