तथा तपस्विनी चैव पिता कृष्णय तां ददौ
आदत्त तदुपश्रुत्य भोजेन शतधन्वना
अक्रूरो धनमन्विच्छन्मणिं चैव स्यमन्तकम्
रात्रौ तं मणिमादाय ततो ऽक्रूराय दत्तवान्
समयं कारयाञ्चक्रे बोध्यो नान्यस्य चेत्युत
मम वै द्वारका सर्वा वेशे तिष्ठत्य संशयम्
प्रययौ रथमारुह्य नगरं वारणावतम्
भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत्
कल्यार्थे चैव भ्रातॄणां न्ययोजयत सात्यकिम्
पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत्
स्यमन्तको मार्गणीयस्तस्य प्रभुरहं प्रभो
स्यमन्तकं महाबाहो सामान्यं वो भविष्यति
शतधन्वा तमक्रूरमवैक्षत्सर्वतो दिशम्
शक्तो ऽपि शाठ्याद्धार्दिक्यो नाक्रूरो ऽभ्युपपद्यत
योजनानां शतं साग्रं हृदया प्रत्यपद्यत
भोजस्य वडवा दिव्या यया कृष्णमयोधयत्
दृष्ट्वा रथस्य तां वृद्धिं शतधन्वा समुद्रवत्
खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत्
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम्
मिथिलोपवने तं वै जघान परमास्त्रवित्
निवृत्तं चाब्र वीत्कृष्णं रत्नं देहीति लाङ्गली
धिक्छब्दपूर्वमसकृत्प्रत्युवाच जनार्द्दनम्
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः
सर्वकामैरुपहृतैर्मैथिलेनैव पूजितः
नानारूपान्क्रतून्सर्वा नाजहार निरर्गलान्
स्यमन्तककृते प्राज्ञो कान्दिनीजो महामनाः
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान्
आनीतो द्वारकामेव कृष्णेन च महात्मना
युद्धे हत्वा तु शत्रुघ्नं सह बन्धुमता बली