अमृष्यमाणो भगवान्वनं स विचचार ह
प्रसेनस्य पदं ग्राह्यं पुरं पौराप्तकारिभिः
अन्वेषयत्परिश्रान्तः स ददर्श महामनाः
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः
पदैरन्वेषयामास गुहामृक्षस्य यादवः
क्रीडयन्त्याथ मणिना मारोदीरित्युदीरितम्
प्रसेनमवधीत्सिंहः सिंहो जांबवता हतः
व्यक्तीकृतश्च शब्दः स तूर्णं चापि ययौ बिलम्
प्रविश्य चापि भगवान्स ऋक्षबिलमञ्जसा
युयुधे वासुदेवस्तु बिले जांबवता सह
प्रविष्टे च बिलं कृष्णे वसुदेवापुरस्सराः
वासुदेवस्तु निर्जित्य जांबवन्तं महाबलम्
भगवत्तेजसा ग्रस्तो जांबवांन्प्रसभं मणिम्
मणिं स्यमन्तकं चैव जग्रहात्मविशुद्धये
एवं स मणिमाहृत्य विशोध्यात्मानमात्मना
कन्यां पुनर्जांबवतीमुवाह मधुसूदनः
इमां मिथ्याभिशप्तिं यः कृष्णस्येह व्यपोहिताम्
दश त्वासन्सत्रजितो भार्यास्तस्यायुतं सुताः
वीरो वातपतिश्चैव तपस्वी च बहुप्रियः
सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः
तथा तपस्विनी चैव पिता कृष्णय तां ददौ
आदत्त तदुपश्रुत्य भोजेन शतधन्वना
अक्रूरो धनमन्विच्छन्मणिं चैव स्यमन्तकम्
रात्रौ तं मणिमादाय ततो ऽक्रूराय दत्तवान्
समयं कारयाञ्चक्रे बोध्यो नान्यस्य चेत्युत
मम वै द्वारका सर्वा वेशे तिष्ठत्य संशयम्
प्रययौ रथमारुह्य नगरं वारणावतम्
भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत्
कल्यार्थे चैव भ्रातॄणां न्ययोजयत सात्यकिम्
पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत्