प्रीतिमानथ तं दृष्ट्वा मुहूर्त्तं कृतवान्कथाम्
प्रोवाचाग्निसवर्णं त्वां येन लोकः प्रपश्यति
स्यमं तकं नाममणिं दत्तवांस्तस्य भास्करः
विस्मापयित्वाथ ततः पुरीमन्तःपुरं ययौ
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम्
कामवर्षी च पर्जन्यो न च व्याधिभयं तथा
गोविन्दो न च तं लेभे शक्तो ऽपि न जहार च
स्यमन्तककृते सिंहाद्वधं प्राप सुदारुणम्
आदाय च मणिं दिव्यं स्वबिलं प्रविवेश ह
मणिं गृध्नोस्तु मन्वानास्तमेव विशशङ्किरे
अमृष्यमाणो भगवान्वनं स विचचार ह
प्रसेनस्य पदं ग्राह्यं पुरं पौराप्तकारिभिः
अन्वेषयत्परिश्रान्तः स ददर्श महामनाः
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः
पदैरन्वेषयामास गुहामृक्षस्य यादवः
क्रीडयन्त्याथ मणिना मारोदीरित्युदीरितम्
प्रसेनमवधीत्सिंहः सिंहो जांबवता हतः
व्यक्तीकृतश्च शब्दः स तूर्णं चापि ययौ बिलम्
प्रविश्य चापि भगवान्स ऋक्षबिलमञ्जसा
युयुधे वासुदेवस्तु बिले जांबवता सह
प्रविष्टे च बिलं कृष्णे वसुदेवापुरस्सराः
वासुदेवस्तु निर्जित्य जांबवन्तं महाबलम्
भगवत्तेजसा ग्रस्तो जांबवांन्प्रसभं मणिम्
मणिं स्यमन्तकं चैव जग्रहात्मविशुद्धये
एवं स मणिमाहृत्य विशोध्यात्मानमात्मना
कन्यां पुनर्जांबवतीमुवाह मधुसूदनः
इमां मिथ्याभिशप्तिं यः कृष्णस्येह व्यपोहिताम्
दश त्वासन्सत्रजितो भार्यास्तस्यायुतं सुताः
वीरो वातपतिश्चैव तपस्वी च बहुप्रियः
सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः