वर्द्धन्ते विभवाश्शश्वद्धर्मश्चास्य विवर्द्धते
यथा यष्टा यथा दाता तथा स्वर्गे महीपते
कार्त्तवीर्येण विक्रम्य तन्नः प्रब्रूहि पृच्छताम्
कथं सरक्षिता भूत्वा नाशयेत तपोवनम्
भजमानो भजिर्द्दिव्यो वृष्णिर्देवावृधो ऽन्धकः
तेषां हि सर्गाश्चत्वारः शृणुध्वं विस्तरेण वै
सृंज यस्य सुते द्वे तु बाह्यके ते उदावहत्
निम्लोचिः किङ्कणश्चैव धृष्टिः पर पुरञ्जयः
अयुताजित्सहस्राजिच्छताजिदिति नामतः
पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह
संयोज्या त्मानमेवं स पर्णाशजलमस्पृशत्
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा
नाभिगच्छामि तां नारीं यस्यामेवंविधः सुतः
तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता
अथ भूत्वा कुमारी तु सा चिन्तापरमेव च
तस्यामाधत्त गर्भे स तेजस्विनमुदा रधीः
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधत्तदा
गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृथः समः
येमृतत्वमनुप्राप्ता बब्रोर्देवावृधादपि
कीर्त्तिमांश्च महाभोजः सात्त्वतानां महारथः
गान्धारी चैव माद्री च धृष्टैर्भार्ये बभूवतुः
साद्री युधाजितं पुत्रं ततो मीढ्वांसमेव च
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः
तस्य सत्राजितः सूर्यः सखा प्राणसमो ऽभवत्
तोयं कूलात्समुद्धर्तुमुपस्थातुं ययौरविम्
सुस्पष्टमूर्त्तिर्भगवांस्तेजोमण्डलवान्विभुः
यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषां पते
को विशेषो विवस्वंस्ते सख्येनोपगतस्य वै
स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा