कर्कोटकसभां जित्वा पुरीं तत्र न्यवेशयत्
क्रीडन्नेव सुखोद्विग्नः प्रावृट्कालं चकार ह
ऊर्मिमुक्तार्त्तसन्नादा शङ्किताभ्येति नर्मदा
चकारोद्वृत्तवेलं तमकाले मारुतोद्धतम्
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः
पतिताविद्धफेनौघमावर्त्तक्षिप्तदुस्सहम्
देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम्
सहसा विद्रुता भीता भीमं दृष्ट्वा नृपोत्तमम्
सायाह्ने कदलीखञ्च निवातेस्तमिता इव
लङ्केशं मोहयित्वा तु सबलं रावणं बलात्
ततो गत्वा पुलस्त्यस्तमर्जुनं च प्रसाधयत्
तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः
अहो मृधे महावीर्यो भार्गवस्तस्य यो ऽच्छिनत्
तृषितेन कदाचित्स भिक्षितश्चित्रभानुना
पुराणि घोषान्ग्रामांश्च पत्तनानि च सर्वशः
स तस्य पुरुषेन्द्रस्य प्रतापेन महायशाः
स शून्यमाश्रमं सर्वं वरुणस्यात्मजस्य वै
यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम्
तत्रापवस्तदा क्रोधादर्जुनं शप्तवान्विभुः
तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति
अर्जुनं च महावीर्यो रामः प्रहरतां वरः
तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः
राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा
कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः
जयध्वजो वंशकर्त्ता अवन्तिषु विशांपतिः
तस्य पुत्रशतं त्वेवं तालजङ्घा इतिश्रुतम्
वीतिहोत्राश्च संजाता भोजाश्चावन्तयस्तथा
वीतिहोत्रसुतश्चापि अनन्तो नाम पार्थिवः
अनष्ट द्रव्यता चैव तस्य राज्ञो बभूव ह
न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः