कृतानि विधिना राज्ञा श्रूयते मुनिसत्तमाः
सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः
गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः
चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च
रथी राजा सानुचरो योगाच्चैवानुदृश्यते
प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षितः
स सर्वरत्नभाक्स म्राट् चक्रवर्ती बभूव ह
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनो ऽभवत्
भाति रश्मिसहस्रेण शारदेनैव भास्करः
कर्कोटकसभां जित्वा पुरीं तत्र न्यवेशयत्
क्रीडन्नेव सुखोद्विग्नः प्रावृट्कालं चकार ह
ऊर्मिमुक्तार्त्तसन्नादा शङ्किताभ्येति नर्मदा
चकारोद्वृत्तवेलं तमकाले मारुतोद्धतम्
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः
पतिताविद्धफेनौघमावर्त्तक्षिप्तदुस्सहम्
देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम्
सहसा विद्रुता भीता भीमं दृष्ट्वा नृपोत्तमम्
सायाह्ने कदलीखञ्च निवातेस्तमिता इव
लङ्केशं मोहयित्वा तु सबलं रावणं बलात्
ततो गत्वा पुलस्त्यस्तमर्जुनं च प्रसाधयत्
तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः
अहो मृधे महावीर्यो भार्गवस्तस्य यो ऽच्छिनत्
तृषितेन कदाचित्स भिक्षितश्चित्रभानुना
पुराणि घोषान्ग्रामांश्च पत्तनानि च सर्वशः
स तस्य पुरुषेन्द्रस्य प्रतापेन महायशाः
स शून्यमाश्रमं सर्वं वरुणस्यात्मजस्य वै
यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम्
तत्रापवस्तदा क्रोधादर्जुनं शप्तवान्विभुः
तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति