सो ऽब्रवीद्देहि मे नाम प्रथमं त्वं पितामह
किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत
भवस्त्वं देवनाम्नासि इत्युक्तः सो ऽरुदत्पुनः
तृतीयं देहि मे नाम इत्युक्तः सो ऽब्रवीत्पुनः
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह
ईशानो देवनाम्नासि इत्युक्तः सो ऽरुदत्पुनः
पञ्चमं नाम देहीति प्रत्युवाच स्वयंभुवम्
किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत्
भीमस्त्वं देव नाम्नासि इत्युक्तः सो ऽरुदत्पुनः
सप्तमं देहि मे नाम इत्युक्तः प्रत्युवाच ह
तं रुदन्तं कुमारं तु मारोदीरिति सो ऽब्रवीत्
त्वं महादेवनामासि इत्युक्तो विरराम ह
प्रोवाच नाम्नामेतेषां स्थानानि प्रदिशेति ह
सूर्यो जलं मही वायुर्व ह्निराकाशमेव च
तेषु पूज्यश्च वन्द्यश्च नमस्कार्यश्च यत्नतः
यदुक्तं ते मया पूर्वं नाम रुद्रेति वै विभो
इत्युक्ते तस्य यत्तेजश्चक्षुस्त्वासीत्प्रकाशकम्
उद्यतमस्तं यन्तं च वर्जयेद्दर्शनेरविम्
तस्मात्मूर्यं न वीक्षेत आयुष्कामः शुचिः सदा
उभे संध्ये ह्युपासीना गृणन्तः सामऋग्यजुः
सामस्वथापराह्णे तु रुद्रः संविशति क्रमात्
न रुद्रम्प्रति मेहेत सर्वावस्थं कथं चन
ततो ऽप्रवीत्पुनर्ब्रह्मा तं देवं नीललोहितम्
एतस्यापो द्वितीया ते तनुर्नाम्ना भवत्विति
विवेश तत्तदा यस्तु तस्मादापो भवः स्मृतः
भवनाद्रावनाच्चैव भूतानामुच्यते भवः
न निष्ठीवेन्नावगाहेन्नैव गच्छेच्च मैथुनम्
मैध्यामेध्यास्त्वपामेतास्तनवो मुनिभिः स्मृताः
अपां योनिः समुद्रस्तु तस्मात्तं कामयन्ति ताः
तस्मादपो न रुन्धीत समुद्रं कामयन्ति ताः