पुत्रसंक्रामितश्रीस्तु प्रीतिमा नभवन्नृपः
प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु
याभिः प्रत्याहरेत्कामात्कूर्मौंऽगानीव सर्वशः
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा
यैषा प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्
जीविताशा धनाशा च जीर्यतो ऽपि न जीर्यति
कृष्णाक्षयसुखस्यैतत्कलां नर्हन्ति षोडशीम्
भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः
तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः
धन्यः प्रजावा नायुष्मान्कीर्त्तिमांश्च भवेन्नरः
ययातेश्चारितं सर्वं पठञ्छृण्वन्द्विजोत्तमाः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे अष्टषष्टितमो ऽध्यायः
विस्तरेणानुपूर्व्या च गदतो मे निबोधत
सहस्रजिदथ श्रेष्ठः क्रोष्टुर्नीलोञ्जिको लघुः
शतजित्तनयाः ख्यातस्त्रयः परमधार्मिकाः
हैहयस्य तु दायादो धर्मनेत्र इति श्रुतः
संज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः
वाराणस्यधिपो राजा कथितः पूर्व एव हि
दुर्मदस्यसुतो धीमान्कनको नाम विश्रुतः
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च
जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः
दत्तमाराधयामास कार्त्तवीर्यो ऽत्रिसंभवम्
पूर्वं बाहुसहस्रं तु स वव्रे प्रथमं वरम्
धर्मेण पृथिवीं जित्वा धर्मेणैवानुपालनम्
संग्रामे युध्यमानस्य वधः स्यात्प्रधने मम
सप्तोदधिपरिक्षिप्ता क्षत्रेण विधिना जिता
योगो योगेश्वरस्येव प्रादुर्भवति मायया