पूरो प्रीतो ऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम्
प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः
अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम्
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो
यदुर्ज्येष्ठस्तव सुतो जातस्तमनुदतुर्वसुः
सुतः संबोधयामस्त्वां धर्मं समनुपालय
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः
मातापित्रोर्वचनकृद्वीरः पुत्रः प्रशस्यते
प्रतिकूलः पितुर्यश्च न स पुत्रः सतांमतः
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च
पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः
सर्वे कामा मम कृताः पूरुणा पुण्यकारिणा
पुत्रो यस्त्वानुवर्त्तेत स राजा तु महामते
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा
अर्हे ऽस्य पूरू राज्यस्य यः प्रियः प्रियकृत्तव
पौरजान पदैस्तुष्टैरित्युक्ते नाहुषस्तदा
दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत्
प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च तावुभौ
व्यभजत्पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा
यथाप्रदेशं धर्मज्ञैर्धर्मेण प्रतिपान्यते
पुत्रसंक्रामितश्रीस्तु प्रीतिमा नभवन्नृपः
प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु
याभिः प्रत्याहरेत्कामात्कूर्मौंऽगानीव सर्वशः
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा
यैषा प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्
जीविताशा धनाशा च जीर्यतो ऽपि न जीर्यति
कृष्णाक्षयसुखस्यैतत्कलां नर्हन्ति षोडशीम्